SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 239 // चारित्रधर्म पञ्चमहाव्रत स्वरूपम्। द्वीपसमुद्रेषु कालतो रात्र्यादौ भावतो रागद्वेषाभ्यामिति / स्वरूपतोऽप्यस्य चातुर्विध्यम्, तद्यथा- रात्रौ गृह्णाति रात्रौ भुङ्क्ते चतुर्थमध्ययन रात्रौ गृह्णाति दिवाभुङ्क्ते 2 दिवा गृह्णाति रात्रौ भुङ्क्ते 3 दिवा गृह्णाति दिवा भुङ्क्ते ४संनिधिपरिभोगे, द्रव्यादिचतुर्भङ्गी षड्जीवपुनरियं-दव्वओ णामेगे राई भुंजइ णो भावओ१ भावओ णामेगे णो दव्वओ 2 एगे दव्वओऽवि भावओऽवि 3 एगे णो निकायम्, सूत्रम् दव्वओणो भावओ४, तत्थ अणुग्गए सूरिए उग्गओत्ति अत्थमिए वा अणथमिओत्ति अरत्तदुट्ठस्स कारणओत्ति रयणीए वा भुंजमाणस्स दव्वओ राईभोअणं णो भावओ, रयणीए भुंजामि मुच्छियस्स तदसंपत्तीए भावओ णो दव्वओ, एवं चेव संपत्तीए दव्वओऽविभावओऽवि, चउत्थभंगोउण सुन्नो। एतच्च रात्रिभोजनंप्रथमचरमतीर्थकरतीर्थयोः ऋजुजडवक्रजडपुरुषा-8 पेक्षया मूलगुणत्वख्यापनार्थं महाव्रतोपरि पठितम्, मध्यमतीर्थकरतीर्थेषु पुनः ऋजुप्रज्ञपुरुषापेक्षयोत्तरगुणवर्ग इति // समस्तव्रताभ्युपगमख्यापनायाह- इच्चेयाई इत्यादि, 'इत्येतानि' अनन्तरोदितानि पञ्च महाव्रतानि रात्रिभोजनविरमणषष्ठानि, किमित्याह-आत्महिताय आत्महितो-मोक्षस्तदर्थम्, अनेनान्यार्थं तत्त्वतो व्रताभावमाह, तदभिलाषानुमत्या हिंसादावनमत्यादिभावात् उपसंपद्य सामीप्येनाङ्गीकृत्य व्रतानि विहरामि सुसाधुविहारेण, तदभावे चाङ्गीकृतानामपिव्रतानामभावात्, दोषाश्च हिंसादिकर्तृणामल्पायुर्जिह्वाच्छेददारिट्रपण्डकदुःखितत्वादयो वाच्या इति।साम्प्रतं प्रागुपन्यस्तगाथा व्याख्यायते'सप्तचत्वारिंशदधिकभङ्गशतं वक्ष्यमाणलक्षणं प्रत्याख्याने प्रत्याख्यानविषयम्, यस्योपलब्धं भवति 'स'इत्थंभूतः प्रत्याख्याने कुशलो-निपुणः,शेषाः सर्वे 'अकुशलाः' तदनभिज्ञा इतिगाथासमासार्थः। अवयवार्थस्तु भङ्गकयोजनाप्रधानः, ®द्रव्यतो नामैको रात्रौ भुङ्क्ते नो भावतः 1 भावतो नामैको नो द्रव्यतः 2 एको द्रव्यतोऽपि भावतोऽपि 3 एको नो द्रव्यतो नो भावतः 4 / तत्रानुगते सूर्ये उद्गत इति 8 // 239 // अस्तमिते वाऽनस्तमित इति अरक्तद्विष्टस्य कारणतो वा रात्रौ भुञानस्य द्रव्यतो रात्रिभोजनं नो भावतः, रात्रौ भुञ्ज इति मूर्च्छितस्य तदसंपत्तौ भावतो नो द्रव्यतः,8 एवमेव संपत्तौ द्रव्यतोऽपि भावतोऽपि, चतुर्थो भङ्गः पुनः शून्यः। नरेन्द्रत्वाद्यभिलाषहेतुना / 0 दोषप्राप्त्यवगमात् / प्रथमव्रते त्रिविधं त्रिविधेनेत्यस्य व्याख्याने।
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy