SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् / / 228 // उक्तं च- पृथिव्यम्बुवनस्पतयः स्थावराः तेजोवायू द्वीन्द्रियादयश्च त्रसाः (तत्त्वा० अ० 2 सू०१३-१४) इति / सर्वे प्राणिनः परमधर्माण चतुर्थमध्ययनं इति सर्व एते प्राणिनो- द्वीन्द्रियादयः पृथिव्यादयश्च परमधर्माण इति- अत्र परमं- सुखं तद्धर्माणः सुखधर्माण: षड्जीवसुखाभिलाषिण इत्यर्थः, यतश्चैवमित्यतो दुःखोत्पादपरिजिहीर्षया एतेषां षण्णांजीवनिकायानां नैव स्वयं दण्डंसमारभेतेति सूत्रम् 1 योगः। षष्ठं जीवनिकायं निगमयन्नाह- एष खलु- अनन्तरोदितः कीटादिः षष्ठो जीवनिकायः पृथिव्यादिपञ्चकापेक्षया षड्जीवनिकायः षष्ठत्वमस्य, त्रसकाय इति प्रोच्यते प्रकर्षणोच्यते सवैरेव तीर्थकरगणधरैरिति प्रयोगार्थः॥ प्रयोगश्च- विद्यमानकर्तृकमिदं भाष्यम् 60 त्रसाधिकारः। शरीरम्, आदिमत्प्रतिनियताकारत्वात्, घटवत् / आह- इदंत्रसकायनिगमनमनभिधाय अस्थाने सर्वे प्राणिनः परमधर्माण इत्यनन्तरसूत्रसंबन्धिसूत्राभिधानं किमर्थ?, उच्यते, निगमनसूत्रव्यवधानवदर्थान्तरेण व्यवधानख्यापनार्थम्, तथाहि-8 त्रसकायनिगमनसूत्रावसानो जीवाभिगमः, अत्रान्तरे अजीवाभिगमाधिकारः, तदर्थमभिधाय चारित्रधर्मो वक्तव्यः, तथा च वृद्धव्याख्या-एसो खलु छट्ठो जीवनिकाओ तसकाउत्ति पवुच्चइ, एस ते जीवाभिगमो भणिओ, इयाणिं अजीवाभिगमोल भण्णइ- अजीवा दुविहा, तंजहा- पुग्गला य नोपोग्गला य, पोग्गला छव्विहा, तंजहा-सुहुमसुहुमा सुहुमा सुहुमबायरा बायरसुहुमा बायरा बायरबायरा। सुहुमसुहमा परमाणुपोग्गला, सुहुमा दुपएसियाओ आढत्तो जाव सुहुमपरिणओ अणंतपएसिओखंधो, सुहुमबायरा गंधपोग्गला, बायरसुहमा वाउक्कायसरीरा, बादरा आउक्कायसरीरा उस्सादीणं, बायरबायरा Oएष खलु षष्ठो जीवनिकायः त्रसकाय इति प्रोच्यते, एष तुभ्यं जीवाभिगमो भणितः, इदानीमजीवाभिगमो भण्यते- अजीवा द्विविधाः, तद्यथा- पुद्गलाश्च नो // 228 // & पुद्गलाश्च, पुद्गलाः षड्विधाः, तद्यथा- सूक्ष्मसूक्ष्माः सूक्ष्माः सूक्ष्मबादरा बादरसूक्ष्मा बादरा बादरबादराः। सूक्ष्मसूक्ष्माः परमाणुपुद्गलाः, सूक्ष्मा द्विप्रदेशिकादारब्धो यावत्सूक्ष्मइपरिणतोऽनन्तप्रदेशिकः स्कन्धः, सूक्ष्मबादरा गन्धपुद्गलाः, बादरसूक्ष्मा वायुकायशरीराणि, बादरा अप्कायशरीराणि अवश्यायादीनाम्, बादरबादरा--
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy