________________ ७समवायः श्रीसमवायाङ्ग श्रीअभय० वृत्तियुतम् // 21 // हेतुत्वादिति, आभ्यन्तरं- चित्तनिरोधप्राधान्येन कर्मक्षपणहेतुत्वादिति, तथा छद्मस्थ:- अकेवली तत्र भवा छाद्मस्थिकाः, सूत्रम् सम्- एकीभावेनोत्-प्राबल्येन घाता:-निर्जरणानि समुद्धाताः, वेदनादिपरिणतो हि जीवो बहून् वेदनीयादिकर्मप्रदेशान्। भयस्थानादिः कालान्तरानुभवयोग्यानुदीरणाकरणेनाकृष्योदये प्रक्षिप्यानुभूय निर्जरयति, आत्मप्रदेशैः संश्लिष्टान् शातयतीत्यर्थः, ते चेह वेदनादिभेदेन षडुक्ताः, तत्र वेदनासमुद्धातोऽसद्वेद्यकर्माश्रयः कषायसमुद्धातःकषायाख्यचारित्रमोहनीयकर्माश्रयः मारणान्तिकसमुद्धातोऽन्तर्मुहूर्तशेषायुष्ककर्माश्रयो वैकुर्विकतैजसाहारकसमुद्धाताः शरीरनामकर्माश्रयाः, तत्र वेदनासमुद्धातसमुद्धत आत्मा वेदनीयकर्मपुद्गलशातं करोति, कषायसमुद्धातसमुद्धतः कषायपुद्गलशातं मारणान्तिकसमुद्धातसमुद्धत आयुःकर्मपुद्गलघातं वैकुर्विकसमुद्धातसमुद्धतस्तु जीवप्रदेशान् शरीराबहिर्निष्काश्य शरीरविष्कम्भबाहल्यमात्रमायामतश्च सङ्खयेयानि योजनानि दण्डं निसृजति निसृज्य च यथास्थूलान् वैक्रियशरीरनामकर्मपुद्गलान् प्राग्बद्धान् शातयति, एवं तैजसाहारकसमुद्धातावपि व्याख्येयाविति, तथा अर्थस्य-सामान्यानिर्देश्यस्वरूपस्य शब्दादेः 'अवे'ति प्रथमं व्यञ्जनावग्रहानन्तरंग्रहणं- परिच्छेदनमर्थावग्रहः, स चैकसामयिको नैश्चयिको व्यावहारिकस्त्वङ्खयेयसामयिकः, स च षोढा- श्रोत्रादिभिरिन्द्रियैर्नोइन्द्रियेण च मनसा जन्यमानत्वादिति, स्थितिसूत्रे स्वयम्भ्वादीनि विंशतिर्विमानानीति ॥६॥अथ सप्तस्थानकं विवियते - सत्त भयट्ठाणा प० तं०- इहलोगभए परलोगभए आदाणभए अकम्हाभए आजीवभए मरणभए असिलोगभए, सत्त समुग्घाया प० तं०- वेयणासमुग्घाए कसायसमुग्घाए मारणंतियसमुग्घाए वेउब्वियसमुग्घाए तेयसमुग्घाए आहारसमुग्घाए केवलिसमुग्याए, समणे भगवं महावीरे सत्त रयणीओ उडे उच्चत्तेणं होत्था, इहेव जंबुद्दीवे दीवे सत्त वासहरपब्वया प० तं०- चुल्लहिमवंते महाहिमवंते ७०स्थिकाः, तत्र सम्-एकीभावेनोत्-प्राबल्येन च घातानि (मु०)। नुदीरणेनाकृष्योदये (प्र०)। 0 ०शाटनं (मु०)। 0 सप्तमं स्था० (मु०)। 21 //