SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ श्रीसमवायाङ्गं श्रीअभय० वृत्तियुतम् // 250 // सूत्रम् 152 शरीरावधिवेदनालेश्याऽऽहारसूत्रम् पर्याप्तकस्येतरस्य च, एवं व्यन्तरस्याष्टविधस्य ज्योतिष्कस्य पञ्चविधस्य, तथा यदि वैमानिकस्य किं कल्पोपपन्नस्य कल्पातीतस्य?, उभयस्यापि पर्याप्तस्यापर्याप्तस्य चेति, तथा वैक्रियं भदन्त! किंसंस्थितम्?, उच्यते, नानासंस्थितम्, तत्र वायोः पताकासंस्थितम्, नारकाणां भवधारणीयमुत्तरवैक्रियं च हुण्डसंस्थितम्, पञ्चेन्द्रियतिर्यग्मनुष्याणां नानासंस्थितम्, देवानां भवधारणीयं समचतुरस्रसंस्थानसंस्थितमुत्तरवैक्रियं नानासंस्थितम्, केवलं कल्पातीतानां भवधारणीयमेव, तथा वैक्रियशरीरावगाहना भदन्त! किंमहती?, गौतम! जघन्यतोऽङ्गलासंख्येयभागमुत्कर्षतः सातिरेकंयोजनलक्षम्, वायोरुभयथा अङ्गलासंख्येयभागम्, एवं नारकस्य जघन्येन, भवधारणीया तूत्कर्षतः पञ्च धनुःशतानि, एषा च सप्तम्याम्, षष्ठ्यादिषु त्वियमेव अर्द्धार्द्धहीनेति, उत्तरवैक्रिया तु जघन्यतः सर्वेषामप्यङ्गलसंख्येयभागमुत्कर्षतस्तुनारकस्य भवधारणीयद्विगुणेति, पञ्चेन्द्रियतिरश्चांयोजनशतपृथक्त्वमुत्कर्षतः, मनुष्याणांतूत्कर्षतः सातिरेकं योजनानां लक्षम्, देवानांतु लक्षमेवोत्तरवैक्रिया, ब्लू भवधारणीया तु भवनपतिव्यन्तरज्योतिष्कसौधर्मेशानानां सप्त हस्ताः सनत्कुमारमाहेन्द्रयोः षट् ब्रह्मलान्तकयोः पञ्च महाशुक्रसहस्रारयोश्चत्वार आनतादिषु त्रयो ग्रैवेयकेषु द्वावनुत्तरेष्वेक इति, अनन्तरोक्तं सूत्रत एवाह- एवं जाव सणंकुमारे त्यादि, एवमिति-दुविहे पन्नत्ते एगिदिय इत्यादिना पूर्वदर्शितक्रमेण प्रज्ञापनोक्तं वैक्रियावगाहनामानसूत्रं वाच्यम्, कियद्दूरमित्याह-यावत्सनत्कुमारे आरब्धं भवधारणीयवैक्रियशरीरपरिहाणमिति गम्यं ततोऽपि यावदनुत्तराणि-अनुत्तरसुरसम्बन्धीनि भवधारणीयानि शरीराणि यानि भवन्ति तेषां रत्नी रलिः परिहीयत इत्येतदर्थसूत्रं तावदिति, पुस्तकान्तरे त्विदं वाक्यमन्यथापि दृश्यते, तत्राप्यक्षरघटनैतदनुसारेण कार्येति ।आहारये त्यादि सुगमम्, नवरं एव मिति यथा पूर्वं आलापकः परिपूर्ण उच्चारित / एवमुत्तरत्रापि, तथाहि जइ मणुस्स त्ति-'जइ मणुस्साहारगसरीरे गब्भवक्वंतियमणुस्साहारगसरीरे संमुच्छिममणुस्साहारगसरीरे?, // 250 //
SR No.600440
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy