________________ श्रीसमवायाङ्ग श्रीअभय० वृत्तियुतम् // 230 // सूत्रम् 147 द्वादशाङ्गम् दृष्टिवादः संयमयोगाः शुभफलेन सफला वर्ण्यन्ते अप्रशस्ताश्च प्रमादादिकाः सर्वे अशुभफला वर्ण्यन्त अतोऽवन्ध्यम्, तस्य च परिमाणं षड्विंशतिः पदकोटयः, प्राणायुादशं तत्राप्यायुः प्राणविधानं सर्वं सभेदमन्ये च प्राणा वर्णितास्तत्परिमाणमेका पदकोटी षट्पञ्चाशच्च पदशतसहस्राणीति, क्रियाविशालं त्रयोदशम्, तत्र कायिक्यादयः क्रिया: 'विसाल'त्ति-सभेदाः संयमक्रियाः छन्दक्रिया विधानानि च वर्ण्यन्त इति क्रियाविशालम्, तत्परिमाणं नव पदकोट्यः, लोकबिन्दुसारं चतुर्दशम्, तच्चास्मिन् / लोके श्रुतलोके वा बिन्दुरिवाक्षरस्य सर्वोत्तममिति, सर्वाक्षरसन्निपातप्रतिष्ठितत्वेन च लोकबिन्दुसारं भणितम्, तत्प्रमाणमर्द्धत्रयोदश पदकोट्य इति / उप्पायपुव्वस्से त्यादि कण्ठ्यम्, नवरं वस्तु-नियतार्थाधिकारप्रतिबद्धो ग्रन्थविशेषोऽध्ययनवदिति, तथा चूडा इव चूडा, इह दृष्टिवादे परिकर्मसूत्रपूर्वगतानुयोगोक्तानुक्तार्थसङ्ग्रहपरा ग्रन्थपद्धतयश्चूडा इति, से तं पुव्वगते त्ति निगमनम्, से किं तमित्यादि, अनुरूपोऽनुकूलो वा योगोऽनुयोगः सूत्रस्य निजेनाभिधेयेन सार्द्धमनुरूपः सम्बन्ध इत्यर्थः, स च द्विविधः प्रज्ञप्तः, तद्यथा- मूलप्रथमानुयोगश्च गण्डिकानुयोगश्च, से किं त मित्यादि, इह धर्मप्रणयनात् मूलं तावत्तीर्थकरास्तेषां प्रथमसम्यक्त्वाप्तिलक्षणपूर्वभवादिगोचरोऽनुयोगो मूलप्रथमानुयोगः, तथा चाह-से किं तं मूलपढमाणुओगे इत्यादि सूत्रसिद्धं यावत् से तं मूलपढमाणुओगे, से किं त मित्यादि इहैकवक्तव्यतार्थाधिकारानुगता वाक्यपद्धतयो गण्डिका उच्यन्ते, तासामनुयोगः- अर्थकथनविधिः गण्डिकानुयोगः, तथा चाह- गंडियाणुओगे अणेगे त्यादि, तत्र कुलकरगण्डिकासु कुलकराणां विमलवाहनादीनां पूर्वजन्माद्यभिधीयत इति, एवं शेषास्वपि अभिधानवशतो भावनीयम्, यावत् चित्रान्तरगण्डिकाः, नवरं दशार्हाः- समुद्रविजयादयो दश वसुदेवान्तास्तथा चित्रा- अनेकार्था अन्तरे- ऋषभाजिततीर्थकरान्तरे गण्डिका- एकवक्तव्यतार्थाधिकारानुगतास्ततश्च चित्राश्च ता अन्तरगण्डिकाश्च चित्रान्तरगण्डिकाः, एतदुक्तं भवति // 230