SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ श्रीअभय० वृत्तियुतम् ||210 // सूत्रम् 142 द्वादशाङ्गम् उपासकदशा तत्रशीलव्रतानि-अणुव्रतानि विरमणानि-रागादिविरतयः गुणा-गुणव्रतानि प्रत्याख्यानानि-नमस्कारसहितादीनि पौषधःअष्टम्यादिपर्वदिनं तत्रोपवसनमाहारशरीरसत्कारादित्याग: पौषधोपवासः, ततो द्वन्द्वे सत्येतेषां प्रतिपदनताः- प्रतिपत्तय इति विग्रहः, श्रुतपरिग्रहास्तपउपधानानि च प्रतीतानि पडिमाओ त्ति एकादश उपासकप्रतिमाः कायोत्सर्गा वा, उपसर्गा- देवादिकृतोपद्रवाः, संलेखना भक्तपानप्रत्याख्यानानि, पादपोपगमनानि देवलोकगमनानि सुकुलप्रत्यायातिः पुनर्बोधिलाभोऽन्तक्रियाश्चाख्यायन्ते पूर्वोक्तमेवाती विशेषत आह- उवासगेत्यादि, तत्र ऋद्धिविशेषा-अनेककोटीसंख्यद्रव्यादिसम्पद्विशेषाः तथा परिषदः- परिवारविशेषा यथा मातापितृपुत्रादिका अभ्यन्तरपरिषत् दासीदासमित्रादिका बाह्यपरिषदिति, विस्तरधर्मश्रवणानि महावीरसन्निधौ, ततो बोधिलाभोऽभिगमःसम्यक्त्वस्य विशुद्धता स्थिरत्वं- सम्यक्त्वशुद्धिरेव मुलगुणोत्तरगुणा- अणुव्रतादयः अतिचारास्तेषामेवबन्धवधादितः खण्डनानि स्थितिविशेषाश्च- उपासकपर्यायस्य कालमानभेदाश्च बहुविशेषाःप्रतिमाः- प्रभूतभेदाः सम्यग्दर्शनादिप्रतिमाः अभिग्रहग्रहणानि तेषामेव च पालनानि उपसर्गाधिसहनानि निरुपसर्गं च- उपसर्गाभावश्चेत्यर्थः, तपांसि च चित्राणि शीलव्रतादयोऽनन्तरोक्तरूपा अपश्चिमाः- पश्चात्कालभाविन्यः अकारस्त्वमङ्गलपरिहारार्थ: मरणरूपे अन्ते भवा मारणान्तिक्यः आत्मनः- शरीरस्य जीवस्य च संलेखनास्तपसा रागादिजयेन च कृशीकरणानि आत्मसंलेखनास्ततः पदत्रयस्य कर्मधारयस्तासाम्, झोसण त्ति जोषणाः सेवनाः करणानीत्यर्थः, ताभिरपश्चिममारणान्तिकात्मसंलेखनाजोषणाभिरात्मानं यथा च भावयित्वा बहूनि भक्तानि अनशनतया च-निर्भोजनतया छेदयित्वा- व्यवच्छेद्य उपपन्ना मृत्वेति गम्यते, केषु?- कल्पवरेषु यानि विमानानि उत्तमानि तेषु, यथानुभवन्ति सुरवरविमानानि वरपुण्डरीकाणीव वरपुण्डरीकाणि यानि तेषु कानि?- सौख्यान्य Ooमेवेतो (मु०)। 0 वधबन्धादित: (मु०)। (c) भावश्चेत्यर्थः, तपांसि चरित्राणि (प्र०)/ विचित्राणि (मु०)। // 210 //
SR No.600440
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy