SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ श्रीसमवायाङ्गं श्रीअभय० वृत्तियुतम् // 139 // सूत्रम् 67 ६७समवायः युगनक्षत्रमासादिः यावत्ते हैमवतबाहू उच्यते एवमैरण्यवतबाहू अपि भावनीयौ, इह प्रमाणसंवादः- बाहा सत्तट्टिसए पणपन्ने तिन्नि य कलाओ (बृहत्क्षे०५५) त्ति कला- एकोनविंशतिभागः, एतच्च बाहुप्रमाणं हैमवतधनुःपृष्ठात् चत्ताला सत्त सया अडतीससहस्स दस कला य धj (बृहत्क्षे०५५) त्येवंलक्षणात् 38740% हिमवद्धनुःपृष्ठे धणुपट्ठ कलचउक्क पणुवीससहस्स दुसय तीसहिय (बृहत्क्षे०५३) न्त्येवंलक्षणे 252306 अपनीते यच्छेषं तदर्कीकृतं सद्भवतीति, आयामेन- दैर्येणेति। मंदरस्से त्यादि, मेरोः पूर्वान्ताज्जम्बूद्वीपोऽपरस्यां दिशिजगतीबाह्यान्तपर्यवसानः पञ्चपञ्चाशद्योजनसहस्राणि तावदस्ति, ततः परं द्वादशयोजनसहस्राण्यतिक्रम्य लवणसमुद्रमध्ये गौतमद्वीपाभिधानो द्वीपोऽस्ति तमधिकृत्य सूत्रार्थः संभवति, पञ्चपञ्चाशतो द्वादशानांच सप्तषष्टित्वभावात् / यद्यपि सूत्रपुस्तकेषु गौतमशब्दो न दृश्यते तथाप्यसौ दृश्यः,जीवाभिगमादिषु लवणसमुद्रे गौतमचन्द्ररविद्वीपान् विना द्वीपान्तरस्याश्रूयमाणत्वादिति।सव्वेसिपि ण मित्यादि, सर्वेषामपि णमित्यलङ्कारे नक्षत्राणां सीमाविष्कम्भः- पूर्वापरतश्चन्द्रस्य नक्षत्रभुक्तिक्षेत्रविस्तारः नक्षत्रेणाहोरात्रभोग्यक्षेत्रस्य सप्तषष्ट्या भागैर्भाजितो-विभक्तः समांशः- समच्छेदः प्रज्ञप्तः, भागान्तरेण तु भज्यमानस्य नक्षत्रसीमाविष्कम्भस्य विषमच्छेदता भवति, भागान्तरेण न भक्तुं शक्यते इत्यर्थः, तथाहि-नक्षत्रेणाहोरात्रगम्यस्य क्षेत्रस्य सप्तषष्टिभागीकृतस्यैकविंशतिर्भागा अभिजिन्नक्षत्रस्य क्षेत्रतः सीमाविष्कम्भो भवति, एतावति क्षेत्रे चन्द्रेण सह तस्य योगो व्यपदिश्यत इत्यर्थः, तथा तस्यामेवैकविंशतौ त्रिंशन्मुहूर्त्तत्वादहोरात्रस्य त्रिंशता गुणितायां 630 सप्तषष्ट्या हृतभागायां यल्लब्धं तत्कालसीमा भवति, चन्द्रेण सह तस्य योगकाल इत्यर्थः, सा च नव मुहूर्ताः सप्तविंशतिश्च सप्तषष्टिभागाः 91 , आह च-अभिइस्स चंदजोगो सत्तढिं खण्डिए अहोरत्ते / भागा उ एक्कवीसं, क्षेत्रतः, होंति अहिगा नव मुहुत्ता य॥१॥ 0 पणवीस० (मु०)10 अभिजिति चन्द्रयोगः सप्तषष्ट्या खण्डितेऽहोरात्रे। भागास्त्वेकविंशतिः क्षेत्रतः भवन्ति नवमुहूर्ताधिकाः॥१॥ // 139 // 8888888888888
SR No.600440
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy