________________ श्रीसमवाया श्रीअभय० वृत्तियुतम् // 132 // सूत्रम् 61 |६१समवायः युगर्तुमासादिः अथ एकषष्टिस्थानकम्, तत्र पञ्चे त्यादि, पञ्चभिः संवत्सरैर्निर्वृत्तमिति पञ्चसांवत्सरिकं तस्य णमित्यलारे युगस्य कालमानविशेषस्य ऋतुमासेन न चन्द्रादिमासेन मीयमानस्य एकषष्टिः ऋतुमासाः प्रज्ञप्ताः, इह चायं भावार्थ:- युगं हि पञ्च संवत्सरा निष्पादयन्ति, तद्यथा- चन्द्रश्चन्द्रोऽभिवर्द्धितश्चन्द्रोऽभिवर्धितश्चेति, तत्र एकोनत्रिंशदहोरात्राणि द्वात्रिंशच्च द्विषष्टिभागा अहोरात्रस्येत्येवंप्रमाणेन 2932 कृष्णप्रतिपदारब्धेन पौर्णमासीनिष्ठितेन चन्द्रमासेन द्वादशमासपरिमाणश्चन्द्रसंवत्सरस्तस्य च प्रमाणमिदं-त्रीणी शतान्यह्रां चतुष्पञ्चाशदुत्तराणि द्वादश च द्विषष्टिभागा दिवसस्य ३५४३तथा एकत्रिंशद् दिवसा एकविंशत्युत्तरं च शतं चतुर्विशत्युत्तरशतभागानां दिवसस्येत्येवंप्रमाणोऽभिवर्द्धितमासो भवति,३११२१,एतेन च मासेन द्वादशमासप्रमाणोऽभिवर्द्धितसंवत्सरो भवति, सच प्रमाणेन त्रीणि शतान्यह्नां त्र्यशीत्यधिकानि चतुश्चत्वारिंशच्च द्विषष्टिभागा दिवसस्य 38314 / तदेवं त्रयाणां चन्द्रसंवत्सराणां द्वयोश्चाभिवर्द्धितसंवत्सरयोरेकीकरणे जातानि दिनानां अष्टादशशतानि त्रिंशदुत्तराणि 1830, ऋतुमासश्च त्रिंशताऽहोरात्रैर्भवतीति त्रिंशता भागहारे लब्धा एकषष्टिः ऋतुमासा इति। मंदरस्से त्यादि, इह मेरुर्नवनवतियोजनसहस्रप्रमाणो द्विधा विभक्तः, तत्र प्रथमो भाग एकषष्टिः सहस्राण्युक्तः द्वितीयस्तु अष्टत्रिंशत्स्थानकेऽष्टत्रिंशदिति, क्षेत्रसमासेतु कन्देन सह लक्षप्रमाणस्त्रिधा विभक्तः, तत्र प्रथमं काण्डं सहस्रं द्वितीयं त्रिषष्टिस्तृतीयं षट्रिशदिति। चंदमंडले इत्यादि, चन्द्रमण्डलं चन्द्रविमानंणमित्यलत्तौ एगसट्ठित्ति योजनस्यैकषष्टितमैर्भागैर्विभाजितं-विभागैर्व्यवस्थापित समांशं-समविभागं प्रज्ञप्तम्, न विषमांशम्, योजनस्यैकषष्टिभागानां षट्पञ्चाशद्भागप्रमाणत्वात्तस्य च भागभागस्याविद्यमानत्वादिति, एवं सूरस्सवि त्ति एवं सूर्यस्यापि मण्डलं वाच्यम्, अष्टचत्वारिंशदेकषष्टिभागमात्रं हि तत् न चापरमंशान्तरं ७०पदमारभ्य(मु०) 0 एकत्रिंशदह्रां एक०(मु०) राणि अहोरात्राणां १८३०(मु०)10 दिति प्रोक्तः (मु०)।७०त्तस्यावशिष्टस्य च भागस्या० (मु०) // 132 //