________________ श्रीसमवायाङ्गं श्रीअभय० वृत्तियुतम् | // 126 // सूत्रम् 53 ५३समवायः कुरुमहाहिमवदादिः तथा लोभादीनि चतुर्दश लोभकषायस्य भिज्झा अभिज्झ त्ति अभिध्यानमभिध्येत्यस्य तीतं पिधानमित्यादाविव वैकल्पिके अकारलोपे भिध्याऽभिध्या चेति शब्दभेदान्नामद्वयमिति, गोथुभे त्यादि गोस्तुभस्य प्राच्यां लवणसमुद्रमध्यवर्त्तिनो वेलन्धरनागराजनिवासभूतपर्वतस्य पौरस्त्याच्चरमान्तादपसृत्य वडवामुखस्य महापातालस्य महापातालकलशस्य पाश्चात्यश्चरमान्तो येन व्यवधानेन भवतीति गम्यते, एस णं ति एतदन्तरमबाधया व्यवधानलक्षणमित्यर्थः, द्विपञ्चाशद्योजनसहस्राणि भवन्तीत्यक्षरघटना, भावार्थस्त्वयं- इह लवणसमुद्रं पञ्चनवतियोजनसहस्राण्यवगाह्य पूर्वादिषु दिक्षु चत्वारः क्रमेण वडवामुखकेतुकजूयकेश्वराभिधाना महापातालकलशा भवन्ति, तथा जम्बूद्वीपपर्यन्ताद् द्विचत्वारिंशद्योजनसहस्राण्यवगाह्य सहस्रविष्कम्भाश्चत्वार एव वेलन्धरनागराजपर्वता गोस्तुभादयो भवन्ति, ततश्च पञ्चनवत्यास्त्रिचत्वारिंशत्यपकर्षितायां द्विपञ्चाशत्सहस्राण्यनन्तरं भवति, तथा सौधर्मे द्वात्रिंशद्विमानानां लक्षाणि सनत्कुमारे द्वादश माहेन्द्रे चाष्टाविति सर्वाणि द्विपञ्चाशत् // 52 // देवकुरुउत्तरकुरुयाओणंजीवाओ तेवनं 2 जोयणसहस्साइंसाइरेगाई आयामेणं प०, महाहिमवंतरुप्पीणं वासहरपव्वयाणं जीवाओ तेवन्नं तेवन्नं जोयणसहस्साइ नव य एगतीसे जोयणसए छच्च एगूणवीसइभाए जोयणस्स आयामेणं प०, समणस्स णं भगवओ महावीरस्स तेवन्नं अणगारा संवच्छरपरियाया पंचसु अणुत्तरेसु महइमहालएसु महाविमाणेसु देवत्ताए उववन्ना, संमुच्छिमउरपरिसप्पाणं उक्कोसेणं तेवनं वाससहस्सा ठिई प०॥सूत्रम् 53 // त्रिपञ्चाशत्स्थानके लिख्यते, महाहिमवंते त्यादि सूत्रे संवादगाथा तेवन्नसहस्साई नव य सए जोयणाण इगतीसे / जीवा महाहिमवओ अद्धकला छच्च य कलाओ॥१॥ (बृहत्क्षे०५६)त्ति।संवच्छरपरियाग त्ति संवत्सरमेकं यावत् पर्यायः प्रव्रज्यालक्षणो येषां ते संवत्सरपर्याया: महइमहालएसु महाविमाणेसु त्ति महान्तिच तानि-विस्तीर्णानि च अतिमहालया इव अतिमहालयाश्चा // 126 //