SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ श्रीसमवायाङ्ग श्रीअभय० वृत्तियुतम् | // 122 // सूत्रम् 47-48 47-48 समवायः अभ्यन्तरमण्डलादिः चक्रिपत्तनादिः तृकाक्षराणि, तानि चाकारादीनि हकारान्तानि सक्षकाराणि ऋऋलुलु लं (ळ?) इत्येतदक्षरपञ्चकवर्जितानि सम्भाव्यन्ते। तथा पभंजणस्स त्ति औदीच्यस्येति // 46 // जयाणं सूरिए सव्वन्भिंतरमंडलं उवसङ्कमित्ताणंचारं चरइ तया णं इहगयस्स मणूसस्स सत्तचत्तालीसंजोयणसहस्सेहिं दोहिय तेवढेहिंजोयणसएहिं एक्कवीसाए यसट्ठिभागेहिंजोयणस्स सूरिए चक्खुफासं हव्वमागच्छइ, थेरेणं अग्गिभूई सत्तचालीसं वासाइं अगारमझे वसित्ता मुंडे भवित्ता अगाराओ अणगारियं पव्वइए। सूत्रम् 47 // अथ सप्तचत्वारिंशत्स्थानके किमप्युच्यते, जया ण मित्यादि, इह लक्षप्रमाणस्य जम्बुद्वीपस्योभयतोऽशीत्युत्तरे योजनशते 360 अपनीते सर्वाभ्यन्तरस्य सूर्यमण्डलस्य विष्कम्भो भवति 99640 तत्परिधिस्त्रीणि लक्षाणि पञ्चदश सहस्राणि एकोननवत्यधिकानि 315089, एतच्च सूर्यो मुहूर्तानां षष्ट्या गच्छतीति षष्ट्याऽस्य भागहारे मुहूर्त्तगतिर्लभ्यते, सा च पञ्च योजनसहस्राणि द्वे चैकपञ्चाशदुत्तरे योजनशते एकोनत्रिंशच्चषष्टिभागा योजनस्य 525119, यदा चाभ्यन्तरमण्डले सूर्यश्चरति तदाऽष्टादश मुहूर्त्ता दिवसप्रमाणम्, तदर्द्धन नवभिर्मुहूतः मुहूर्तगतिर्गुण्यते, ततश्च यथोक्तं चक्षुःस्पर्शप्रमाणमागच्छतीति, अग्गिभूइ त्ति वीरनाथस्य द्वितीयो गणधरस्तस्य चेह सप्तचत्वारिंशद्वर्षाण्यगारवास उक्तः, आवश्यके तु षट्चत्वारिंशत्, तत्र सप्तचत्वारिंशत्तमवर्षस्यासम्पूर्णत्वादविवक्षा, इह त्वपूर्णस्यापि पूर्णविवक्षेति सम्भावनया न विरोध इति // 47 // ___ एगमेगस्सणंरनो चाउरंतचक्कवट्टिस्स अडयालीसं पट्टणसहस्सा प०, धम्मस्सणं अरहओ अडयालीसंगणा अडयालीसंगणहरा होत्था, सूरमंडलेणं अडयालीसं एकसट्ठिभागे जोयणस्स विक्खंभेणं प०॥सूत्रम् 48 // (r) संभाव्यन्ते (स्वरचतुष्टयवर्जनात् विसर्गान्तानि द्वादश पञ्चविंशतिः स्पर्शाः चतस्रोऽन्तःस्थाः ऊष्माणश्चत्वारः क्षवर्णश्चेति षट्चत्वारिंशद्वर्णाः) तथा (मु०)। // 122 //
SR No.600440
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy