SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ श्रीसमवायाङ्गं श्रीअभय० वृत्तियुतम् // 97 // स्तत्कृतेति स एवम्भूतो महामोहं प्रकरोतीति पञ्चविंशतितमं 25 / जे कहाहिगरणाई, संपउंजे पुणो पुणो / सव्वतित्थाण भेयाणं, सूत्रम् 30 30 समवायः महामोह पकुव्वई। कथा- वाक्यप्रबन्धः शास्त्रमित्यर्थस्तद्रूपाण्यधिकरणानि कथाधिकरणानि- कौटिल्यशास्त्रादीनि मोहनीयप्राण्युपमर्दनप्रवर्तकत्वेन तेषामात्मनो दुर्गतावधिकारित्वकरणात्, कथया वा क्षेत्राणि कृषत गा नस्तयतेत्यादिकया स्थानादिः अधिकरणानि तथाविधप्रवृत्तिरूपाणि, अथवा कथा- राजकथादिका अधिकरणानि च- यन्त्रादीनि कलहा वा कथाधिकरणानि तानि सम्प्रयुङ्क्ते पुनः पुनः एवं सर्वतीर्थानां भेदाय संसारसागरतरणकारणत्वात् तीर्थानि- ज्ञानादीनि तेषांक सर्वथा नाशाय प्रवर्त्तमानः स महामोहं प्रकरोतीति षड्विंशतितमं 26 / जे अ आहम्मिए जोए, संपउंजे पुणो पुणो / सहाहेउं सहीहेउं, महामोहं पकुव्वई / कण्ठ्यम्, नवरं अधार्मिका योगा- निमित्तवशीकरणादिप्रयोगाः किमर्थं? - श्लाघाहेतोः सखिहेतोः-8 मित्रनिमित्तमित्यर्थः, इति सप्तविंशतितमं 27 / जे अमाणुस्सए भोए, अदुवा पारलोइए। तेऽतिप्पयंतो आसयइ, महामोहं पकुव्वई // यश्चमानुष्यकान् भोगान् अथवा पारलौकिकान् तेत्ति विभक्तिपरिणामात्तैस्तेषु वा अतृप्यन्- तृप्तिमगच्छन् आस्वदते अभिलषति आश्रयति वा स महामोहं प्रकरोतीति अष्टाविंशतितमं 28 / इड्डी जुई जसो वण्णो, देवाणं बलवीरियं / तेसिं अवण्णिमं बाले, महामोहं पकुव्वई // ऋद्धिः- विमानादिसम्पत् द्युतिः- शरीराभरणदीप्तिः यशः- कीर्तिः वर्णः- शुक्लादिः शरीरसम्बन्धी देवानां वैमानिकादीनां बलं- शारीरं वीर्यं जीवप्रभवं अस्तीत्यध्याहारः, तेषामिह अपेर्गम्यमानत्वात् तेषामपि देवानामनेकातिशायिगुणवतामवर्णवान्- अश्लाघाकारी अथवा अवर्णवान् केनोल्लापेन देवानामृद्धिर्देवानां द्युतिरित्यादि काका व्याख्येयम्, न किञ्चिद्देवानामृद्ध्यादिकमस्तीत्यवर्णवादवाक्यभावार्थः, एवंभूतः स महामोहं प्रकरोतीति एकोनत्रिंशत्तमं 29 / (c) गामसूयते (मु०)। (c) सर्वतीर्थभेदाय (मु०)। // 97 //
SR No.600440
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy