SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ श्रासमवाया श्रीअभय० वृत्तियुतम् // 84 // सूत्रम् 28 28 समवायः आचारप्रकल्पादिः तेसिणंदेवाणं अट्ठावीसाए वाससहस्सेहिं आहारट्टेसमुप्पज्जइ, संतेगइया भवसिद्धिया जीवाजे अट्ठावीसाए भवग्गहणेहिं सिज्झिस्संति बुज्झिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति / / सूत्रम् 28 // अष्टाविंशतिस्थानकमपि व्यक्तम्, नवरमिह पञ्चस्थितेः प्राक्सूत्रााणि, तत्र आचार:-प्रथमाङ्गतस्य प्रकल्पः- अध्ययनविशेषो निशीथमित्यपराभिधान आचारस्यवा-साध्वाचारस्य ज्ञानादिविषयस्य प्रकल्पो-व्यवस्थापनमित्याचारप्रकल्पः, तत्र क्वचिद् ज्ञानाद्याचारविषये अपराधमापन्नस्य किञ्चित् प्रायश्चित्तं दत्तम्, पुनरन्यमपराधविशेषमापनस्ततस्तत्रैव प्राक्तने प्रायश्चित्ते मासवहनयोग्यं मासिकं प्रायश्चित्तमारोपितमित्येवं मासिक्यारोपणा भवति, तथा पञ्चरात्रिकशुद्धियोग्यं मासिकशुद्धियोग्य चापराधद्वयमापनस्ततः पूर्वदत्तप्रायश्चित्ते सपञ्चरात्रमासिकप्रायश्चित्तारोपणात्सपञ्चरात्रमासिक्यारोपणा भवति, एवं मासिक्यारोपणाः षट् 6 एवं द्विमासिक्यः 6 त्रिमासिक्यः 6 चतुर्मासिक्योऽपीति 6 चतुर्विंशतिरारोपणाः, तथा सार्द्धदिनद्वयस्य पक्षस्य चोद्धातनेन लघूनां मासादीनां प्राचीनप्रायश्चित्ते आरोपणा औद्धातिक्यारोपणा, यदाह- अरेण छिन्नसेसं पुव्वरेणं तु संजुयं काउं। देजा य लहुयदाणं गुरुदाणं तत्तियं चेव॥१॥त्ति, यथा-मासार्द्ध 15, पञ्चविंशतिकार्द्धच सार्द्धद्वादश सर्वमीलनेसा सप्तविंशतिरिति लघुमासः,तथा मासद्वयार्द्ध मासो मासिकस्यार्द्ध पक्ष उभयमीलने सार्दो मास इति लघुद्वैमासिकं 25, तथा तेषामेव सार्द्धदिनद्वयाद्यनुद्धातनेन गुरूणामारोपणा अनौद्धातिक्यारोपणा 26, तथा यावतोऽपराधानापन्नस्तावतीनां तच्छुद्धीनामारोपणा कृत्स्नारोपणा 27, तथा बहूनपराधानापन्नस्य षण्मासान्तं तप इतिकृत्वा षण्मासाधिकं तपःकर्म तेष्वेवान्तर्भाव्य शेषमारोप्यते यत्रसा अकृत्स्नारोपणेत्यष्टाविंशतिः 28, एतच्चसम्यगनिशीथविंशतितमोद्देशकादवगम्यम्, अत्रैव निगमनमाह- एतावांस्तावदाचार * कस्यचित् (मु०)। 0 पूर्वदत्ते प्रायश्चित्ते सपञ्चरात्रिमासिक० (मु०)। (c) चोपघातनेन....उपघातिकारोपणा (मु०)।
SR No.600440
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy