SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ सम्पादकीयम् चतुर्थो विभागः श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 7 // // सम्पादकीयम्॥ ___ आ-समन्तात् गम्यते मोक्षं प्रति येन स आगमः / देवगुरुधर्मविनयेन स आगमः फलति, विद्या विनयेन शोभते इत्युक्त्यनुसारेण संस्मरणमात्रेण समाधिदायकं टीण्टोइमण्डनश्रीमुहरीपार्श्वनाथं नत्वा व्याख्यानवाचस्पतिसन्मार्गदर्शकदीक्षायुगप्रवर्तकपूज्यपादाचार्यदेवेशश्रीमद्विजय रामचन्द्रसूरीश्वरं संयममार्गप्रापकसमतानिधिपरमगुरुदेवपूज्यदर्शनभूषणविजयगुरुवरंच प्रणम्य इदं ज्ञानधर्मरूपो ग्रन्थः प्रस्तूयते। श्रीआवश्यकसूत्रस्य श्रीहारिभद्रीयटीकायां चतुर्थे विभागे श्रीकायोत्सर्गाध्ययनं तथा श्रीप्रत्याख्यानाध्ययनं प्ररूपितमस्ति। कायोत्सर्गस्य प्ररूपणा 11 द्वारेण क्रियते तद्यथा 1. निक्षेपः 2. एकार्थिकः 3. विधानमार्गणा 4. कालपरिमाणं 5. भेदपरिमाणं 6. अशठः ७.शठः 8. विधिः ९.दोषः १०.कस्य 11. फलं एवं कायोत्सर्गस्य स्वरूपं दोषांश्च ज्ञात्वा शुद्धकायोत्सर्गे भव्यानां प्रयत्नः स्यादेवं संपूर्णकायस्य उत्सर्गेन आत्मनः शुद्धस्वरूपं प्रकटीभूयात् / श्रीकायोत्सर्गाध्ययनेस्खलनसंभवे चिकित्सोक्ता / श्रीप्रत्याख्यानाध्ययने गुणधारणा प्रतिपाद्यते / गुणधारणा मुलगुणोत्तरगुणप्रत्याख्यानरूपा सा अस्मिन्नध्ययने निरूपिता / अस्मिन्नध्ययने प्रत्याख्यानं षट्भेदेन प्ररूपितम् / तद्यथा १.प्रत्याख्याता 2. प्रत्याख्येयं 3. आनुपूर्वी 4. पर्षद् 5. कथनविधिः 6. फलं प्रत्याख्यानाध्ययनानुसारेण पू. आ. भ. श्रीदेवेन्द्रसूरीश्वरैः श्रीपच्चक्खाणभाष्ये नव द्वाराणि नवति चोत्तरद्वाराणि प्ररूपितानि / भव्यजीवाः प्रत्याख्यानेन संपूर्णकायस्य उत्सर्ग कृत्वा मोक्ष प्राप्नुयुः। मुनिपुण्यकीर्तिविजयो गणिः / श्री श्रीपालनगर जैन श्वे० मूर्तिपूजक देरासर ट्रस्ट 12 जमनादास मेहता मार्ग, मुंबई - 400006. विक्रम सं०२०६३ वीर सं० 2533 // 7 //
SR No.600439
Book TitleAvashyak Sutram Part 04
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages198
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy