________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ | // 1503 // खमिति- आकाशं तच्च मुखविवरमेव तस्मिन् मातीति खादिमम्, स्वादयति गुणान्- रसादीन् संयमगुणान् वा यतस्ततः ६.षष्ठमध्ययनं स्वादिमम्, हेतुत्वेन तदेव स्वादयतीत्यर्थः / विचित्रं निरुक्तं पाठात्, भ्रमति च रौति च भ्रमर इत्यादिप्रयोगदर्शनात्, प्रत्याख्यान:, साधुरेवायमन्वर्थ इति गाथार्थः॥१५८८॥ उक्तः पदार्थः, पदविग्रहस्तुसमासभाक्पदविषय इति नोक्तः / अधुना चालनामाह नियुक्तिः 1589-90 नि०- सव्वोऽविय आहारो असणं सव्वोऽवि वुच्चई पाणं / सव्वोऽविखाइमंति य सव्वोऽवि य साइमं होई // 1589 // सुखेन यद्यनन्तरोदितपदार्थापेक्षया अशनादीनि ततः सर्वोऽपि चाहारश्चतुर्विधोऽपीत्यर्थः अशनम्, सर्वोऽपि चोच्यते पानं सर्वोऽपि श्रद्धार्थ भेदाः। च खादिम सर्व एव स्वादिमं भवति, अन्यथा विशेषात्, तथाहि- यथैवाशनमोदनमण्डकादि क्षुधं शमयति तथैव पान द्राक्षाक्षीरपानादिखादिममपिच फलादि स्वादिममपि ताम्बूलपुगफलादि, यथा च पानं प्राणानामुपग्रहे वर्त्तते एवमशनादीन्यपि, तथा चत्वार्यपि खे मान्ति चत्वार्यपि वा स्वादयन्ति आस्वाद्यन्ते वेति न कश्चिद् विशेषः, तस्मादयुक्तमेवं भेद इति / गाथार्थः / / 1589 // इयं चालना, प्रत्यवस्थानं तु यद्यपि एतदेवं तथापि (तुल्यार्थत्वप्राप्तावपि) रूढितो नीतितः प्रयोजनं संयमोपकारकमस्ति एवं कल्पनायाः, अन्यथा दोषः, तथा चाह नि०- जइ असणमेव सव्वं पाणग अविवज्जणंमिसेसाणं / हवइय सेसविवेगो तेण विहत्ताणि चउरोऽवि // 1590 // यद्यशनमेव सर्वमाहारजातं गृह्यते ततः शेषापरिभोगेऽपि पानकादिवर्जने- उदकादिपरित्यागे शेषाणामाहारभेदानां निवृत्तिर्न } कृता भवतीति वाक्यशेषः, ततः कानोहानिरिति चेत्? भवति शेषविवेकः-अस्ति चशेषाहारभेदपरित्यागः, न्यायोपपन्नत्वात्, प्रेक्षापूर्विकारितया त्यागपालनंन्यायः,सचेह सम्भवति, तेन विभक्तानि चत्वार्यपि अशनादीनि, तदेकभावेऽपितत्तद्भेदपरित्यागे। एतदुपपद्यत एवेति चेत्, सत्यमुपपद्यते दुरवसेयं तुभवति, तस्यैव देशस्त्यक्तस्तस्यैव नेति अर्द्ध कुक्कुष्ट्याः पच्यते अर्द्ध प्रसवाय