________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 1497 // ६.षष्ठमध्ययन प्रत्याख्यान:, नियुक्तिः 1586 प्रत्याख्यानशुद्धिः / भाष्यः 246-247 अतरंतो संभोइयाणवि उवदिसेज्ज ण दोसो, अह पाणगस्स सण्णाभूमिं वा गतेण संखडीभत्तादिगं वा होज्ज ताहे साधूणं अमुगत्थ संखडित्ति एवं उवदिसेज्जा / उवदेसत्ति गतं / जहासमाही णाम दाणे उवदेसे अजहासामत्थं, जति तरति आणेदुं देति, अहन तरति तो दवावेज वा उवदिसेज वा, जथा जथा साधूणं अप्पणो वा समाधी तथा तथा पयतितव्वं जहासमाधित्ति वक्खाणियं / अमुमेवार्थमुपदर्शयन्नाह भाष्यकार: भा०-संविगअण्णसंभोइयाण देसेज सदृगकुलाई। अतरंतो वा संभोइयाण देजा जहसमाही // 246 / / (244) गतार्था, णवरमतरंतस्स अण्णसंभोइयस्सवि दातव्वं / साम्प्रतं प्रत्याख्यानशुद्धिः प्रतिपाद्यते, तथा चाह भाष्यकार: भा०- सोही पच्चक्खाणस्स छव्विहा समणसमयकेऊहिं / पन्नत्ता तित्थयरेहिं तमहं वुच्छं समासेणं // 247 // (245) नि०-सा पुण सद्दहणा जाणणाय विणयाणुभासणा चेव / अणुपालणा विसोही भावविसोही भवे छट्ठा // 1586 // शोधनं शुद्धिः, सा प्रत्याख्यानस्य- प्राग्निरूपितशब्दार्थस्य षड्डिधा- षट्प्रकारा श्रमणसमयकेतुभिः- साधुसिद्धान्तचिह्नभूतैः प्रज्ञप्ता- प्ररूपिता, कैः?- तीर्थकरैः- ऋषभादिभिः, तामहं वक्ष्ये, कथं?- समासेन- सोपेणेति गाथार्थः // 245 // अधुना षड्विधत्वमुपदर्शयन्नाह- सा पुनः शुद्धिरेवं षड्विधा, तद्यथा श्रद्धानशुद्धिः ज्ञानशुद्धिश्च विनयशुद्धिः अनुभाषणाशुद्धिश्चैव, तथाऽनुपालनाविशुद्धिश्चैव भावशुद्धिर्भवति षष्ठी,पाठान्तरं वा सोहीसद्दहणे त्यादि,तत्र शुद्धिशब्दो द्वारोपलक्षणार्थः, नियुक्ति सांभोगिकेभ्योऽप्युपदिशेन्न दोषः, अथ पानकस्य संज्ञाभूमि वा गतेन संखडीभक्तादिकं वा भवेत् तदा साधुभ्योऽमुकत्र संखडीत्येवमुपदिशेत्, उपदेश इति गतम्, यथासमाधिनाम दाने उपदेशे च यथासामर्थ्यम्, यदि शक्नोति आनीय ददाति अथ न शक्नोति तदा दापयेद्वोपदिशेद्वा, यथा यथा साधूनामात्मनो वा समाधिस्तथा तथा प्रयतितव्यं यथासमाधीति व्याख्यातम्। 0 नवरमशक्नुवतोऽन्यसांभोगिकायापि दातव्यम्। // 1497 //