________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 1496 // ६.षष्ठमध्ययन प्रत्याख्यानः, नियुक्तिः 1580-85 प्रत्याख्यानशुद्धिः / वैय्यावृत्यं प्रधानतरमतः सत्यपिच लाभे किं तेनेति गाथार्थः॥१५८२॥ एवं विनेयजनहिताय पराभिप्रायमाशङ्कय गुरुराहन त्रिविधंकरणकारणानुमतिभेदभिन्नं त्रिविधेन मनोवाक्काययोगत्रयेण प्रत्याख्याति प्रत्याचष्टेप्रक्रान्तमशनादि अतोऽनभ्युपगतोपालम्भश्चोदकमते, यतश्चैवं अन्यस्मैदानमशनादेरिति गम्यते, तेन हेतुभूतेन कारणं भुजिक्रियागोचरमन्यदानकरणं तच्छुद्धस्यआशंसादिदोषरहितस्य ततः- तस्मात् मुनेः-साधोः न भवति तद्भङ्गहेतुः- प्रक्रान्तप्रत्याख्यानभङ्गहेतुः, तथाऽनभ्युपगमादिति गाथार्थः // 1583 // किंच- स्वयमेव- आत्मनैवानुपालनीयं प्रत्याख्यानमुक्तं नियुक्तिकारेण, दानोपदेशौ च नेह प्रतिषिद्धौ, तत्रात्मनाऽऽनीय वितरणं दानं दानश्राद्धकादिकुलाख्यानं तूपदेश इति, यस्माद् एवं तस्माद् दद्यादुपदिशेद्वा, यथासमाधिना वा यथासामर्थ्येन अन्येभ्यो बालादिभ्य इति गाथार्थः // 1584 // अमुमेवार्थं स्पृष्टयन्नाह कय इत्यादि, निगदसिद्धा, एत्थ पुण सामायारी- सयं अभुजंतोवि साधूणं आणेत्ता भत्तपाणं देजा, संतं वीरियं ण निगूहितव्वं अप्पणो, संते वीरिए अण्णोणाऽऽणावेयव्वो, जथा अण्णो अमुगस्स आणेदु दिति, तम्हा अप्पणो संते वीरिए आयरियगिलाणबालवुड्डपाहुणगादीण गच्छस्स वा संणायकुलेहिंतो वा असण्णातएहिं वा लद्धिसंपुण्णो आणेत्ता देज्ज वा दवावेज वा परिचिएसुवा संखडीए वा दवावेज, दाणेत्ति गतं, उवदिसेज वा संविग्गअण्णसंभोइयाणं जथा एताणि दाणकुलाणि सढगकुलाणि वा, 0अत्र पुनः सामाचारी- स्वयमभुजानोऽपि साधूभ्य आनीय भक्तपाने दद्यात् सवीर्यं न निगूहितव्यं आत्मनः, सति वीर्येऽन्यो नाऽऽज्ञापयितव्य : यथाऽन्योऽमुकस्मै आनीय ददातु, तस्मात् आत्मनः सति वीर्ये आचार्यग्लानबालवृद्धप्राघूर्णकादिभ्यो गच्छाय वा सज्ञातीयकुलेभ्यो वाऽसज्ञातीयेभ्यो वा लब्धिसंपूर्ण आनीय दद्यात् दापयेद्वा, परिचितेभ्यो वा सङ्घड्या वा दापयेत्, दानमिति गतम्, उपदिशेद्वा संविग्नेभ्योऽन्यसांभोगिकेभ्यो यथैतानि दानकुलानि श्राद्धककुलानि वा, अशक्नुवन् - 8 // 1496 //