________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1349 // 5. पञ्चममध्ययन कायोत्सर्गः, नियुक्तिः 1418 प्रायश्चित्तभेदाः / यथोक्तं- मिच्छत्तपडिक्कमण मित्यादि, इह तु कायोत्सर्गकरणतः प्रागुपात्तकर्मक्षयः प्रतिपाद्यते, वक्ष्यते च-जह करगओ निकंतइ दारु जंतो पुणोऽवि वच्चंतो। इय किंतंति सुविहिया काउस्सग्गेण कम्माई॥१॥ काउस्सग्गे जह सुट्ठियस्स भजति अंगमंगाई। इय भिंदंति सुविहिया अट्ठविहं कम्मसंघायं ॥२॥इत्यादि,अथवा सामायिके चारित्रमुपवर्णितम्, चतुर्विंशतिस्तवे त्वर्हतांगुणस्तुतिः, साच ज्ञानदर्शनरूपा, एवमिदं त्रितयमुक्तम्, अस्य च वितथासेवनमैहिकामुष्मिकापायपरिजिहीर्षणा गुरोर्निवेदनीयम्, तच्च वन्दनपूर्वकमित्यतस्तन्निरूपितम्, निवेद्य च भूयःशुभेष्वेवस्थानेषुप्रतीपंक्रमणमासेवनीयमित्यनन्तराध्ययने तन्निरूपितम्, इह तु तथाप्यशुद्धस्यापराधव्रणचिकित्सा प्रायश्चित्तभेषजात् प्रतिपाद्यते, तत्र प्रायश्चित्तभैषजमेव तावद्विचित्रं प्रतिपादयन्नाह नि०- आलोयण पडिक्कमणे मीस विवेगे तहा विउस्सग्गे / तव छेय मूल अणवट्ठया य पारंचिए चेव // 1418 // आलोयणं ति आलोचनाप्रयोजनतो हस्तशताबहिर्गमनागमनादौ गुरोविकटना, पडिक्कमणे त्ति प्रतीपंक्रमणं प्रतिक्रमणम्, सहसाऽसमितादौ मिथ्यादुष्कृतकरणमित्यर्थः, मीस त्ति मिश्रं शब्दादिषु रागादिकरणे, विकटना मिथ्यादुष्कृतं चेत्यर्थः, विवेगेत्ति विवेकः अनेषणीयस्य भक्तादेः कथञ्चित् गृहीतस्य परित्याग इत्यर्थः, तथा विउस्सग्गेत्ति तथा व्युत्सर्ग: कुस्वप्नादौ कायोत्सर्ग इति भावना, तवे त्ति कर्म तापयतीति तप:- पृथिव्यादिसंघटनादौ निर्विग(कृ)तिकादि, छेदे त्ति तपसा दुर्दमस्य श्रमणपर्यायच्छेदनमिति हृदयम्, मूल त्ति प्राणातिपातादौ पुनर्वतारोपणमित्यर्थः, अणवठ्ठया यत्ति हस्ततालादिप्रदानदोषात् दुष्टतरपरिणामत्वाद् व्रतेषु नावस्थाप्यते इत्यनवस्थाप्यः तद्भावोऽनवस्थाप्यता, पारंचिए चेव त्ति पुरुषविशेषस्य स्वलिङ्ग उपायसवालज ७यथा क्रकचो निकृन्तति दारु यान् पुनरपि व्रजन् / एवं कृन्तन्ति सुविहिताः कायोत्सर्गेण कर्माणि // 1 // कायोत्सर्गे यथा सुस्थितस्य भज्यन्ते अङ्गोपाङ्गानि / एवं भिन्दन्ति सुविहिता अष्टविधं कर्मसंघातम् / / 2 / / // 1349 //