________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1490 // ६.षष्ठमध्ययन प्रत्याख्यान:, नियुक्तिः 1574 HIGOR प्रत्याख्यानम्। अनिदाना अप्रतिबद्धाः क्षेत्रादिष्विति गाथासमासार्थः // 1572 // इदं चाधिकृतप्रत्याख्यानं न सर्वकालमेव क्रियते, किं तर्हि?, चतुर्दशपूर्विजिनकल्पिकेषु प्रथम एव वज्रऋषभनाराचसंहनने, (अधुना तु) एतद् व्यवछिन्नमेव, आह-तदा पुनः किं सर्व एव स्थविरादयः कृतवन्तः आहोश्विजिनकल्पिकादय एवेति?, उच्यते, सर्व एव, तथा चाह- स्थविरा अपि तथा(दा) चतुर्दशपूर्व्यादिकाले, अपिशब्दादन्ये च कृतवन्त इति गाथासमासार्थः // 1573 // भावत्थो पुण नियंटितं णाम णियमितं, जथा एत्थ कायव्वं, अथवाऽच्छिण्णं जथा एत्थ अवस्सं कायव्वंति, मासे 2 अमुगेहिं दिवसेहिं चतुत्थादि छट्ठादि अट्ठमादि एवतिओ छटेण अट्ठमेण वा, हट्ठो ताव करेति चेव, जति गिलाणो हवति तथावि करेति चेव, णवरि ऊसासधरो, एतं च पच्चक्खाणं पढमसंघतणी अपडिबद्धा अणिस्सिता इत्थ य परत्थ य, अवधारणं मम असमत्थस्स अण्णो काहिति, एवं सरीरए अप्पडिबद्धा अण्णिस्सिता कुव्वंति, एतं पुण चोद्दसपुव्वीसु पढमसंघतणेण जिणकप्पेण य समं वोच्छिण्णं, तम्हि पुण काले आयरियपज्जंता थेरा तदा करेंता आसत्ति / व्याख्यातं नियन्त्रितद्वारम्, साम्प्रतं साकारद्वारं व्याचिख्यासुराह___नि०- मयहरगागारेहिं अन्नत्थवि कारणंमि जायंमि / जो भत्तपरिच्चायं करेइ सागारकडमेयं // 1574 // अयं च महानयंच महान् अनयोरतिशयेन महान् महत्तरः, आक्रियन्त इत्याकाराः,प्रभूतैवंविधाकारसत्ताख्यापनार्थं बहु Oभावार्थः पुनर्नियन्त्रितं नाम नियमितं यथाऽत्र कर्त्तव्यम्, अथवाऽच्छिन्नं यथाऽत्रावश्यं कर्त्तव्यमिति, मासे 2 अमुष्मिन् दिवसे चतुर्थादि षष्ठादि अष्टमादि * एतावत्, षष्ठेनाष्टमेन वा, हृष्टस्तावत् करोत्येव, यदि ग्लानो भवति तथापि करोत्येव, परं उच्छासधरः, एतच्च प्रत्याख्यानं प्रथमसंहननिनोऽप्रतिबद्धा अनिश्रिताः, अत्र चामुत्र च, अवधारणं ममासमर्थस्यान्यः करिष्यति, एवं शरीरेऽप्रतिबद्धा अनिश्रिताः कुर्वन्ति, एतत् पुनश्चतुर्दशपूर्विभिः प्रथमसंहननेन जिनकल्पेन च समं व्यवच्छिन्नम्, तस्मिन् पुनः काले आचार्या जिनकल्पिकाः स्थविरास्तदा कुर्वन्त आसन् / // 1490 //