________________ प्रत्याख्यानः, श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1461 // अहोदिसिपमाणाइक्कमे तिरियदिसिपमाणाइक्कमे खित्तवुट्टी सइअंतरद्धा ६॥सूत्रम् 48 // (49) ६.षष्ठमध्ययनं दिशो ह्यनेकप्रकाराः शास्त्रे वर्णिताः, तत्र सूर्योपलक्षिता पूर्वा शेषाश्च पूर्वदक्षिणादिकास्तदनुक्रमेण द्रष्टव्याः, तत्र दिशां सूत्रम् सम्बन्धि दिक्षु वा व्रतमेतावत्सु पूर्वादिविभागेषु मया गमनाद्यनुष्ठेयं न परत इत्येवंभूतं दिग्वतम्, एतच्चौघत: त्रिविधं प्रज्ञप्तं , 48(49) तीर्थकरगणधरैः, तद्यथेत्युदाहरणोपन्यासार्थः, ऊर्ध्वादिग् ऊर्ध्व दिग् तत्सम्बन्धि तस्यां वा व्रतं ऊर्ध्वदिव्रतम्, एतावती, | दिव्रतविधिः। दिगूर्द्ध पर्वताद्यारोहणादवगाहनीया न परत इत्येवंभूतं इति भावना, अधो दिग् अधोदिक्तत्सम्बन्धि तस्यां वा व्रतं अधोदिव्रतंअर्वाग्दिव्रतम्, एतावती दिगध इन्द्रकूपाद्यवतरणादवगाहनीया न परत इत्येवंभूतमिति हृदयम्, तिर्यक् दिशस्तिर्यग्दिश:पूर्वादिकास्तासां सम्बन्धि तासु वा व्रतं तिर्यग्व्रतम्, एतावती दिग् पूर्वेणावगाहनीया एतावती दक्षिणेनेत्यादि, न परत इत्येवंभूतमिति भावार्थः। अस्मिंश्च सत्यवगृहीतक्षेत्राद् बहिः स्थावरजङ्गमप्राणिगोचरो दण्डः परित्यक्तो भवतीति गुणः / इदमतिचाररहितमनुपालनीयमतोऽस्यैवातिचारानभिधित्सुराह-'दिसिवयस्स समणो०' दिग्व्रतस्य उक्तरूपस्य श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्याः न समाचरितव्याः, तद्यथा-ऊर्द्धदिक्प्रमाणातिक्रम: यावत्प्रमाणंपरिगृहीतं तस्यातिलङ्घनमित्यर्थः, एवमन्यत्रापि भावना कार्या, अधोदिक्प्रमाणातिक्रमः, तिर्यग्दिक्प्रमाणातिक्रमः, क्षेत्रस्य वृद्धिः क्षेत्रवृद्धिः (इति)- एकतो छु योजनशतपरिमाणमभिगृहीतमन्यतो दश योजनानि गृहीतानि तस्यां दिशि समुपन्ने कार्ये योजनशतमध्यादपनीयान्यानि दश योजनानि तत्रैव स्वबुद्ध्या प्रक्षिपति, संवर्द्धयत्येकत इत्यर्थः, स्मृतेभ्रंश:- अन्तर्धानं स्मृत्यन्तर्धानं किं मया परिगृहीतं कया / मर्यादया व्रतमित्येवमननुस्मरणमित्यर्थः, स्मृतिमूलं नियमानुष्ठानम्, तद्धंशे तु नियमत एव नियमभ्रंश इत्यतिचारः। एत्थ य (r) अत्र च .