________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ ६.षष्ठमध्ययन प्रत्याख्यान:, सूत्रम् 47(48) पञ्चमव्रतविधिः सदृष्टान्तः। सूत्रम् 48(49) दिग्व्रतविधिः। // 1460 // 'इच्छापरिमाणस्ससमणोवासएणं०'इच्छापरिमाणस्य श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्याःन समाचरितव्याः, तद्यथेति पूर्ववत्, क्षेत्रवास्तुप्रमाणातिक्रमस्तत्र शस्योत्पत्तिभूमिः क्षेत्रम्, तच्च सेतुकेतुभेदाद् द्विभेदम्, तत्र सेतुक्षेत्रं अरघट्टादिसेक्यम्, केतुक्षेत्रं पुनराकाशपतितोदकनिष्पाद्यम्, वास्तु-अगारंतदपि त्रिविधं-खातमुत्सृतंखातोच्छ्रितंच, तत्र खातं- भूमिगृहकादि उच्छ्रुतं- प्रासादादि खातोच्छ्रितं- भूमिगृहस्योपरि प्रासादः, एतेषां क्षेत्रवास्तूनां प्रमाणातिक्रमः, प्रत्याख्यानकालगृहीतप्रमाणोल्लङ्घनमित्यर्थः। तथा हिरण्यसुवर्णप्रमाणातिक्रमस्तत्र हिरण्यं- रजतमघटितं घटितं वा अनेकप्रकारं द्रम्मादिः, सुवर्ण प्रतीतमेव तदपि घटिताघटितम्, एतद्गहणाच्चेन्द्रनीलमरकताधुपलग्रहः, अक्षरगमनिका पूर्ववदेव, तथा धनधान्यप्रमाणातिक्रम:, तत्र धनं-गुडशर्करादि, गोमहिष्यजाविकाकरभतुरगाद्यन्ये, धान्यं-व्रीहिकोद्रवमुद्माषतिलगोधूमयवादि, अक्षरगमनिका प्राग्वदेव, तथा द्विपदचुतष्पदप्रमाणातिक्रमः, तत्र द्विपदादीनि- दासीमयूरहंसादीनि, चतुष्पदानि- हस्त्यश्वमहिष्यादीनि, अक्षरगमनिका पूर्ववदेव, तथा कुप्यप्रमाणातिक्रमः, तत्र कुप्यं- आसनशयनभण्डककरोटकलोहाद्युपस्करजातमुच्यते, एतद्गहBणाचवस्त्रकम्बलपरिग्रहः, अक्षरगमनिका पूर्ववदेव, तान् क्षेत्रवास्तुप्रमाणातिक्रमादीन्समाचरन्नतिचरति पञ्चमाणुव्रतमिति।। एत्थ य दोसा जीवघातादि भणितव्वा / उक्तं सातिचारं पञ्चमाणुव्रतम्, इत्युक्तान्यणुव्रतानि, साम्प्रतमेतेषामेवाणुव्रतानां परिपालनाय भावनाभूतानि गुणव्रतान्यभिधीयन्ते-तानि पुनस्त्रीणि भवन्ति, तद्यथा-दिग्व्रतं उपभोगपरिमाणं अनर्थदण्डपरिवर्जनमिति, तत्राद्यगुणव्रतस्वरूपाभिधित्सयाऽऽह दिसिवए तिविहे पन्नत्ते- उहदिसिवए अहोदिसिवए तिरियदिसिवए, दिसिवयस्ससमणो० इमे पञ्च० तंजहा- उढदिसिपमाणाइक्कमे (r) अत्र च दोषा जीवघातादयो भणितव्याः / // 1460 //