SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ ६.षष्ठमध्ययन प्रत्याख्यानः, सूत्रम् 43(44) प्रथमव्रतविधिः | सदृष्टान्तः। // 1445 // तक्रियादर्शनाच्च तस्यासकृदभ्यस्तत्वादूवाप्तसहकारिकारणात् मिथ्यात्वोदयतो दृष्टिभेदः संजायते अतोऽतिचारहेतुत्वान्न समाचरणीयोऽयमिति / अत्र चोदाहरणं-सोरट्ठसडगोपुव्वभणितो। एवं शङ्कादिसकलशल्यरहितः सम्यक्त्ववान् शेषाणुव्रतादिप्रतिपत्तियोग्यो भवति, तानिचाणुव्रतानि स्थूलप्राणातिपातादिनिवृत्तिरूपाणि प्राक्लेशत:सूचितान्येव 'दुविधन्तिविधेण पढमो'इत्यादि (ना) अधुना स्वरूपतस्तान्येवोपदर्शयन्नाह थूलगपाणाइवायं समणोवासओ पच्चक्खाइ, से पाणाइवाए दुविहे पन्नत्ते, तंजहा-संकप्पओ अआरंभओ अ, तत्थ समणोवासओसंकप्पओजावजीवाए पचक्खाइ,नोआरंभओ, थूलगपाणाइवायवेरमणस्ससमणोवासएणंइमे पंच अइयाराजाणियव्वा, तंजहा- बंधे वहे छविच्छेए अइभारे भत्तपाणवुच्छेए 1 // सूत्रम् 43 // (44) स्थूला:- द्वीन्द्रियादयः, स्थूलत्वं चैतेषां सकललौकिकजीवत्वप्रसिद्धेः, एतदपेक्षयैकेन्द्रियाः (णां) सूक्ष्माधिगमेना(न)जीवत्वसिद्धेरिति, स्थूला एव स्थूलकास्तेषां प्राणा:- इन्द्रियादयः तेषामतिपात: स्थूलप्राणातिपातस्तं श्रमणोपासकः श्रावक इत्यर्थः प्रत्याख्याति, तस्माद् विरमत इति भावना। स च प्राणातिपातो द्विविधः प्रज्ञप्तः, तीर्थकरगणधरैर्द्विविधः प्ररूपित इत्यर्थः, 'तद्यथे' त्युदाहरणोपन्यासार्थः, सङ्कल्पजश्चारम्भजश्च, सङ्कल्पाज्जातःसङ्कल्पजः, मनसःसङ्कल्पाद्वीन्द्रियादिप्राणिनः मांसास्थिचर्मनखवालदन्ताद्यर्थं व्यापादयतो भवति, आरम्भाज्जातः आरम्भजः, तत्रारम्भो- हलदन्तालखननस्तत्(लवन) प्रकारस्तस्मिन् शङ्खचन्दणकपिपीलिकाधान्यगृहकारकादिसङ्घट्टनपरितापापद्रावलक्षण इति, तत्र श्रमणोपासकः सङ्कल्पतो यावज्जीवयापि प्रत्याख्याति, न तु यावज्जीवयैव नियमत इति, नारम्भज मिति,तस्यावश्यतयाऽऽरम्भसद्भावादिति, आह-एवं 0 सौराष्ट्रश्रावकः पूर्वभणितः।
SR No.600439
Book TitleAvashyak Sutram Part 04
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages198
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy