SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 911 // 3. तृतीयमध्ययनम् वन्दना, नियुक्तिः 1105-06 वन्दनीयावन्दनीये दृष्टान्तः। नि०- असंजयं न वंदिज्जा, मायरं पियरं गुरुं। सेणावई पसत्थारं, रायाणं देवयाणि य // 1105 / / न संयता असंयताः, अविरता इत्यर्थः, तान्न वन्देत, कं?- मातरं जननीं तथा पितरं जनकम्, असंयतमिति वर्तते, प्राकृत्यशैल्या चाऽसंयतशब्दो लिङ्गत्रयेऽपि यथायोगमभिसम्बध्यते, तथा गुरुं पितामहादिलक्षणम्, असंयतत्वं सर्वत्र योजनीयम्, तथा हस्त्यश्वरथपदातिलक्षणा सेना तस्याः पतिः सेनापतिः- गणराजेत्यर्थः, तं सेनापतिम्, प्रशस्तारं प्रकर्षण शास्ता प्रशास्ता तं-धर्मपाठकादिलक्षणम्, तथा बद्धमुकुटो राजाऽभिधीयते तं राजानम्, दैवतानि च न वन्देत, देवदेवीसङ्ग्रहार्थं दैवतग्रहणम्, चशब्दाल्लेखाचार्यादिग्रहो वेदितव्य इति गाथार्थः // 1105 // इदानीं यस्य वन्दनं कर्तव्यं स उच्यते नि०-समणं वंदिज मेहावी, संजयंसुसमाहियं / पंचसमिय तिगुत्तं, अस्संजमदुगुंछगं॥११०६॥ श्रमणः- प्राग्निरूपितशब्दार्थः, तं श्रमणं वन्देत नमस्कुर्यात्, कः? - मेधावी न्यायावस्थितः, सखलु श्रमण: नामस्थापनादिभेदभिन्नोऽपि भवति, अत आह- संयतं सम्- एकीभावेन यतः संयतः, क्रियां प्रति यत्नवानित्यर्थः, असावपि च व्यवहारनयाभिप्रायतो लब्ध्यादिनिमित्तमसम्पूर्णदर्शनादिरपिसंभाव्यते, अत आह-सुसमाहितं दर्शनादिषु सुष्ठ-सम्यगाहितः सुसमाहितस्तम्, सुसमाहितत्वमेव दर्श्यते- पञ्चभिरीर्यासमित्यादिभिः समितिभिः समितः पञ्चसमितस्तम्, तिसृभिर्मनोगुप्त्यादिभिर्गुप्तिभिर्गुप्तस्तं त्रिगुप्तम्, प्राणातिपातादिलक्षणोऽसंयमः असंयमंगर्हति-जुगुप्सतीत्यसंयमजुगुप्सकस्तम्, अनेन दृढधर्मता तस्यावेदिता भवतीति गाथार्थः॥११०६॥ आह-किमिति यस्य कर्तव्यं वन्दनं स एवादौ नोक्तः?, येन येषां न कर्तव्यं मात्रादीनां तेऽप्युक्ता इति, उच्यते, सर्वपार्षदं हीदंशास्त्रम्, त्रिविधाश्च विनेया भवन्ति-केचिदुद्घटितज्ञाः केचिन्मध्यमबुद्धयः केचित्प्रपञ्चितज्ञा इति, तत्र मा भूत्प्रपञ्चितज्ञानां मतिः- उक्तलक्षणस्य श्रमणस्य कर्तव्यं मात्रादीनां तु न विधिर्न // 911 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy