________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1096 // 4. चतुर्थमध्ययनम् प्रतिक्रमणं, 4.2 पारिष्ठापनिकानियुक्तिः। नि०३-४ पारिष्ठापनिकानियुक्तिः प्रतिज्ञादि। षया तत्स्वरूपमेवादौ प्रतिपादयन्नाह पुढवी आउक्काए तेऊ वाऊ वणस्सई चेव / एगेंदिय पंचविहा तज्जाय तहा य अतज्जाय // नि०३॥ पृथिव्यप्कायस्तेजो वायुर्वनस्पतिश्चैव एवमेकेन्द्रियाः पञ्चविधाः, एकं त्वगिन्द्रियं येषां ते एकेन्द्रियाः पञ्चविधाः पञ्चप्रकाराः, एतेषांचैकेन्द्रियाणां पारिस्थापनिकी द्विविधा भवति, कथमित्याह-तज्जाय तहा य अतज्जाय तज्जातपारिस्थापनिकी अतज्जातपारिस्थापनिकीच, अनयोर्भावार्थमुपरिष्टाद्वक्ष्यतीतिगाथार्थः॥३॥आह-सति ग्रहणसम्भवेऽतिरिक्तस्य परिस्थापनं भवति, तत्र पृथिव्यादीनां कथं ग्रहणमित्यत आह दुविहं च होइ गहणं आयसमुत्थं च परसमुत्थं च / एक्केपि य दुविहं आभोगे तह अणाभोगे॥ नि०४॥ द्विविधं तु द्विप्रकारं च भवति ग्रहणं पृथिव्यादीनाम्, कथं?- आत्मसमुत्थं च परसमुत्थं च आत्मसमुत्थं च स्वयमेव गृह्णतः परसमुत्थं परस्माद्गृह्णतः, पुनरेकैकमपि द्विविधं भवति, कथमित्याह- आभोए तह अणाभोए आभोगनमाभोगः, उपयोगविशेष इत्यर्थः, तस्मिन्नाभोगे सति, तथाऽनाभोगे, अनुपयोग इत्यर्थः, अयं गाथाक्षरार्थः // 4 // अयं पुनर्भावार्थो वर्तते- तत्थ ताव आयसमुत्थं कहं च आभोएण होज?,साहू अहिणा खइओ विसंवा खइयं विसप्फोडिया वा उट्ठिया, तत्थ जो अचित्तो पुढविकाओ केणइ आणिओ सो मग्गिज्जइ, णत्थि आणिल्लओ, ताहे अप्पणावि आणिज्जइ, तत्थवि ण होज्ज अचित्तो ताहे मीसो, अंतो हलखणणकुड्डमाईसु आणिज्जइ,ण होज ताहे अडवीओ पंथे वंमिए वा दवदहए वा, ण होज पच्छा सचित्तोवि। तत्र तावदात्मसमुत्थं कथं चाभोगेन भवेत्?, साधुरहिना दष्टो विषं वा खादितं विषस्फोटिका वोत्थिता, तत्र योऽचित्तः पृथ्वीकायः केनचिदानीतः स मार्ग्यते, नास्त्यानीतस्तदाऽऽत्मनाऽप्यानीयते, तत्रापि न भवेदचित्तस्तदा मिश्रः, अन्तशो हलखननकुड्यादिभ्य आनीयते, न भवेत्तदाऽटवीतः, पथि वल्मीकात् दवदग्धाद्वा, न भवेत् पश्चात्सचित्तोऽपि -