SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 998 // क्रमणमा नि०- मिच्छत्तपडिक्कमणं तहेव अस्संजमे पडिक्कमणं / कसायाण पडिक्कमणं जोगाण य अप्पसत्थाणं // 1250 // 4. चतुर्थनि०-संसारपडिक्कमणंचउव्विहं होइ आणुपुव्वीए। भावपडिक्कमणं पुण तिविहं तिविहेण नेयव्वं // 1251 // मध्ययनम् प्रतिक्रमणं, मिथ्यात्वमोहनीयकर्मपुद्गलसाचिव्यविशेषादात्मपरिणामो मिथ्यात्वं तस्य प्रतिक्रमणं तत्प्रतिक्रान्तव्यं वर्तते, यदाभोगाना नियुक्तिः भोगसहसात्कारैर्मिथ्यात्वंगतस्तत्प्रतिक्रान्तव्यमित्यर्थः, तथैव असंयमे असंयमविषये प्रतिक्रमणम्, असंयमः- प्राणातिपादा- 1250-51 मिथ्यात्वादिलक्षणः प्रतिक्रान्तव्यो वर्तते, कषायाणां प्राग्निरूपितशब्दार्थानां क्रोधादीनां प्रतिक्रमणम्, कषायाः प्रतिक्रान्तव्याः, दीनांप्रतियोगानां च मनोवाक्कायलक्षणानां अप्रशस्तानां अशोभनानां प्रतिक्रमणम्, ते च प्रतिक्रान्तव्या इति गाथार्थः॥१२५० / / संसरणं संसार:- तिर्यग्नरनारकामरभवानुभूतिलक्षणस्तस्य प्रतिक्रमणं चतुर्विधं चतुष्प्रकारं भवति आनुपूर्व्या परिपाट्या, एतदुक्तं भवति- नारकायुषो ये हेतवो महारम्भादयस्तेषां (षामा) भोगानाभोगसहसात्कारैर्यद्वर्तितमन्यथा वा प्ररूपितं तस्य प्रतिक्रान्तव्यम् , एवं तिर्यग्नरामरेष्वपि विभाषा, नवरंशुभनरामरायुर्हेतुभ्यो मायाद्यनासेवनादिलक्षणेभ्यो निराशंसेनैवापवर्गाभिलाषिणाऽपि न प्रतिक्रान्तव्यम्, भावपडिक्कमणं पुण तिविहं तिविहेण णेयव्वं तदेतदनन्तरोदितं भावप्रतिक्रमणं पुनस्त्रिविधं त्रिविधेनैव नेतव्यम्, पुनःशब्दस्यैवकारार्थत्वात्, एतदुक्तं भवति- 'मिच्छत्ताइ न गच्छइ ण य गच्छावेइ णाणुजाणेई। जं मणवइकाएहिं तंभणियं भावपडिकमणं॥१॥'मनसा न गच्छतिन चिन्तयति यथाशोभन: शाक्यादिधर्मः, वाचा नाभिधत्ते, कायेन न तैः सह निष्प्रयोजनं संसर्गं करोति, तथा न य गच्छावेइ मनसा न चिन्तयति-कथमेष तच्चनिकादिः स्यात्?, वाचा न प्रवर्तयति यथा तच्चनिकादिर्भव, कायेन न तच्चनिकादीनामर्पयति, णाणुजाणइ कश्चित्तच्चनिकादिर्भवति नतं मनसाऽनुमोदयति / तूष्णीं वाऽऽस्ते, वाचा न सुष्ठारब्धं कृतं वेति भणति, कायेन नखच्छोटिकादि प्रयच्छति, एवमसंयमादिष्वपि विभाषा // 998 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy