________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 948 // |3. तृतीयमध्ययनम् वन्दना, नियुक्तिः 1980-84 नित्यवासे सदोषता सङ्गमाचार्योदायन दृष्टान्ताः / नि०- चेइयपूया किं वयरसामिणा मुणियपुव्वसारेणं / न कया पुरियाइ? तओमुक्खंगं सावि साहूणं // 1180 // अक्षरार्थः सुगमः, भावार्थः कथानकादवसेयः, तच्चाधः कथितमेव, तत्र वैरस्वामिनमालम्बनं कुर्वाणा इदं नेक्षन्ते मन्दधियः, किमित्याह नि०- ओहावणं परेसिं सतित्थउब्भावणं च वच्छल्लं / न गणंति गणेमाणा पुव्वुच्चियपुप्फमहिमंच // 1181 // अपभ्राजनांलाञ्छनां परेषांशाक्यादीनांस्वतीर्थोद्भावनांच दिव्यपूजाकरणेन तथा वात्सल्यं श्रावकाणाम्, एतन्न गणयन्त्यालम्बनानि गणयन्तः सन्तः, तथा पूर्वावचितपुष्पमहिमानं च न गणयन्तीति- पूर्वावचितैः- प्राग्गृहीतैः पुष्पैः- कुसुमैमहिमायात्रा तामिति गाथार्थः॥११८१॥ चैत्यभक्तिद्वारं गतम्, अधुनाऽऽर्यिकालाभद्वारम्, तत्रेयं गाथा नि०- अज्जियलाभे गिद्धा सएण लाभेण जे असंतुट्ठा। भिक्खायरियाभग्गा अन्नियपुत्तं ववइसंति // 1182 // आर्यिकाभ्यो लाभ आर्यिकालाभस्तस्मिन् गृद्धाः आसक्ताः स्वकीयेन आत्मीयेन लाभेन येऽसन्तुष्टा मन्दधर्माणः भिक्षाचर्यया भन्ना भिक्षाचर्याभग्नाः, भिक्षाटनेन निर्विण्णा इत्यर्थः, ते हि सुसाधुना चोदिताः सन्तोऽभक्ष्योऽयं तपस्विनामिति अन्निकापुत्रं आचार्य व्यपदिशन्त्यालम्बनत्वेनेति गाथार्थः॥११८२॥ कथं? नि०- अन्नियपुत्तायरिओ भत्तं पाणं च पुष्फचूलाए। उवणीयं भुंजतो तेणेव भवेण अंतगडो॥११८३॥ अक्षरार्थो निगदसिद्धः, भावार्थः कथानकादवसेयः, तच्च योगसङ्ग्रहेषु वक्ष्यते / ते च मन्दमतय इदमालम्बनं कुर्वन्तः सन्तः इदमपरं नेक्षन्ते, किं?, अत आह नि०- गयसीसगणं ओमे भिक्खायरियाअपच्चलं थेरं / न गणंति सहावि सढा अज्जियलाहंगवेसंता॥११८४ // // 14 //