SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 842 // 1038 // अधुना योगोऽभिधीयते, संच द्विधा- द्रव्ययोगो भावयोगश्च, तथा चाऽऽह नि०-दव्वे मणवयकाए जोगा दव्वा दुहाउभावंमि / जोगा सम्मत्ताई पसत्थ इअरोउ विवरीओ॥१०३९॥ ॐ द्रव्य इति द्वारपरामर्शः, मणवइकाए जोगा दव्वेति मनोवाक्काययोग्यानि द्रव्याणि द्रव्ययोगः, एतदुक्तं भवति-जीवेनागृहीतानि गृहीतानि वा स्वव्यापाराप्रवृत्तानि द्रव्ययोग इति, द्रव्याणां वा हरीतक्यादीनां योगो द्रव्ययोगः, दुहा उ भावंमि त्ति द्विधैव द्विप्रकार एव, 'भाव' इति भावविषयः जोगो त्ति योगोऽधिकृतः- प्रशस्तोऽप्रशस्तश्च, तत्र सम्मत्ताई पसत्थ त्तिसम्यक्त्वादीनाम्, आदिशब्दाद् ज्ञानचरणपरिग्रहः, प्रशस्तः युज्यतेऽनेन करणभूतेनाऽऽत्माऽपवर्गेणेतिकृत्वा, इयरो उ विवरीओ त्ति इतरस्तु मिथ्यात्वादिर्योगः, 'विपरीत' इत्यप्रशस्तोवर्तते, युज्यतेऽनेनाऽऽत्माऽष्टविधेन कर्मेणेतिकृत्वाऽयंगाथार्थः॥१०३९॥सावा योगमिति व्याख्यातौ सूत्रावयवाविति, अधुना प्रत्याख्यामीत्यवयवप्रस्तावात् प्रत्याख्यानं निरूप्यते, इह प्रत्याख्यामीति वा प्रत्याचक्षे इति वा उत्तमपुरुषैकवचने द्विधा शब्दौ, तत्राऽऽद्यः प्रत्याख्यामीति, प्रतिशब्दः प्रतिषेधे आङ् आभिमुख्ये ख्या प्रकथने, प्रतीपं आभिमुख्येन ख्यापनं सावधयोगस्य करोमि प्रत्याख्यामीति, अथवा 'चक्षिा व्यक्तायां वाचि' प्रतिषेधस्याऽऽदरेणाभिधानं करोमि प्रत्याचक्षे, प्रतिषेधस्याख्यानं प्रत्याख्यानं निवृत्तिरित्यर्थः, इदंचषट्प्रकारं नामस्थापनाद्रव्यक्षेत्रातीच्छाभावभेदभिन्नमिति, तत्र च नामस्थापने क्षुण्णत्वादनादृत्य द्रव्यप्रत्याख्यानादि प्रतिपादयन्नाह नि०-दव्वंमि निण्हगाई 3 निव्विसयाई अहोई खित्तंमि४। भिक्खाईणमदाणे अइच्छ 5 भावे पुणो दुविहं 6 // 1040 // द्रव्यमिति द्वारपरामर्शः, निण्हगाइ त्ति निवादिप्रत्याख्यानम्, आदिशब्दाद् द्रव्ययोर्द्रव्याणां द्रव्यभूतस्य द्रव्यहेतोर्वा यत् 0 तथा चाह- नामं ठवणा दविए खित्तमदिच्छा य भावओ तं च / नामाभिहाणमुत्तं ठवणागारक्खनिक्खेवो॥१॥ इति गाथा क्वचित् // 0 दिच्छेति वा अतिगच्छप्रत्या० १.प्रथममध्ययन सामायिक, नियुक्तिः 1039 कृताकृतं केन केषु कदा नयः कतिविधं कथं द्वाराणि। नियुक्तिः 1040 देशविघातिशुद्धौ ककारलाभः। / / 842 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy