________________ श्रीआवश्यक | नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 642 // 0.3 उपोद्धातनियुक्तिः, 0.3.7 सप्तमद्वारम् निहववक्तव्यता। भाष्यः१५१ नियुक्तिः 866-868 मुनित्व स्वरूपम्। भा०-निक्खंतो हत्थिसीसा दमदंतो कामभोगमवहाय / णविरज्जइ रत्तेसुंदुहेसुण दोसमावज्ज // 151 // निष्क्रान्तो हस्तिशीर्षात् नगराद्दमदन्तो राजा कामभोगानपहाय, काम:- इच्छा भोगा:- शब्दाद्यनुभवाः कामप्रतिबद्धा वा भोगाः कामभोगा इति, स च नापि रज्यते रक्तेषु न प्रीतिं करोति, अप्रीतेषु द्विष्टेषु न द्वेषमापद्यते, वर्तमाननिर्देशप्रयोजन प्राग्वदिति गाथार्थः। तथाहि- मुनयः खल्वेवम्भूता एव भवन्ति, तथा चाह नि०-वंदिज्जमाणान समुक्कसंति, हीलिज्जमाणान समुज्जलंति / दंतेण चित्तेण चरंति धीरा, मुणी समुग्घाइयरागदोसा।। 866 // वन्द्यमानाः- न समुक्कसंति न समुत्कर्ष यान्ति , तथा हील्यमाना न समुज्ज्वलन्ति न कोपाग्निं प्रकटयन्ति, किं तर्हि?- दान्तेन उपशान्तेन चित्तेन चरन्ति धीराः मुनयः समुद्धातितरागद्वेषा इति गाथार्थः॥ 866 // तथा नि०- तो समणो जइ सुमणो भावेण यजइण होइ पावमणो।सयणे यजणे यसमो समोय माणावमाणेसुं॥८६७॥ ततः समणो त्ति प्राकृतशैल्या यदि सुमनाः,शोभनं धर्मध्यानादिप्रवृत्तं मनोऽस्येति सुमनाः समणोत्ति भण्यन्ते, किमित्थम्भूत एव?, नेत्याह- भावेन च आत्मपरिणामलक्षणेन यदि न भवति पापमनाः- अवस्थितमना अपीत्यर्थः अथवा भावेन च यदिन भवति पापमनाः, निदानप्रवृत्तपापमनोरहित इति भावना, तथा स्वजने च मात्रादिके जने चान्यस्मिन् समः- तुल्यः, समश्च मानापमानयोरिति गाथार्थः॥ 867 // नि०- णत्थिय सि कोइ वेसो पिओ व सव्वेसुचेव जीवेसु / एएण होइ समणो एसो अण्णोवि पज्जाओ॥८६८॥ नास्ति च से तस्य कश्चिद् द्वेष्यः प्रियो वा सर्वेष्वेव जीवेषु, एतेन भवति समणः, सम् अणति- गच्छतीति समणः, एषोऽन्योऽपि 0 अनवस्थित० (प्र०)। // 642 //