________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ 0.3 उपोद्धातनियुक्तिः, 0.3.6 षष्ठद्वारम्, उपक्रमादिः। नियुक्ति: 724 आयुरुपक्रमा: (7) सदृष्टान्ता:, दण्डकशाद्या // 477 // / / अहम् // // श्रीमद्विजयरामचन्द्रसूरीश्वरस्मृति-ग्रन्थमाला-आगमाङ्कः-४०-ग्रन्थाङ्कः-२९/२॥ ॥प्रथमतीर्थपति-श्रीआदिनाथस्वामिने नमः // ऐं नमः / / चरमतीर्थपति-श्रीमहावीरस्वामिने नमः॥ ॥पञ्चमगणधर-श्रीमत्सुधर्मस्वामिने नमः॥ // तपागच्छीय पूज्याचार्यदेव-श्रीमद्विजयदान-प्रेम-रामचन्द्रसूरीश्वरेभ्यो नमः॥ श्रीमद्गणधरवरसुधर्मस्वामिविरचितं श्रीमद्भद्रबाहुश्रुतकेवलिततनियुक्तियुतं पूर्वधराचार्यविहितभाष्यभूषितं श्रीमद्भवविरहहरिभद्रसूरिसूत्रितवृत्त्यलङ्कतं श्रीआवश्यकसूत्रम्। द्वितीयो विभागः। साम्प्रतं यथायुष्कोपक्रमकाल: प्रतिपाद्यते-सच सप्तधा, तद्यथा नि०- अज्झवसाणनिमित्ते आहारे वेयणा पराघाए। फासे आणापाणु सत्तविहं झिज्जए आउं॥७२४॥ अध्यवसानमेव निमित्तं अध्यवसाननिमित्तम्, तस्मिन्नध्यवसाने सति, अथवा अध्यवसानं रागस्नेहभयभेदेन त्रिधा तस्मिन्नध्यवसाने सति, तथा दण्डादिके निमित्ते सति, आहारे प्रचुरे सति, वेदनायां नयनादिसम्बन्धिन्यां सत्याम्, पराघातो गर्तापातादिसमुत्थस्तस्मिन् सति, स्पर्शे भुजङ्गादिसम्बन्धिनि, प्राणापानयोनिरोधे, किं?,सर्वत्रैव क्रियामाह- सप्तविधं सप्त हेतवः // 477 //