________________ सम्पादकीयम् प्रथमो विभागः श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 7 // // सम्पादकीयम्॥ आ-समन्तात् गम्यते मोक्षं प्रति येन स आगमः / देवगुरुधर्मविनयेन स आगमः फलति, विद्या विनयेन शोभते इत्युक्त्यनुसारेण संस्मरणमात्रेण समाधिदायकं टीण्टोइमण्डनश्रीमुहरीपार्श्वनाथं नत्वा व्याख्यानवाचस्पतिसन्मार्गदर्शकदीक्षायुगप्रवर्त्तकपूज्यपादाचार्यदेवेशश्रीमद्विजयरामचन्द्रसूरीश्वरं संयममार्गप्रापकसमतानिधिपरमगुरुदेवपूज्यदर्शनभूषणविजयगुरुवरंच प्रणम्यायं ज्ञानधर्मरूपो ग्रन्थः प्रस्तूयते। चरमतीर्थपतिश्रीमहावीरस्वामिना केवलज्ञानोत्पत्यनन्तरं श्रीतीर्थस्य स्थापना कृता। बीजबुद्धिनिधानाः श्रीगणधरजीवा अपि तीर्थप्रभावेण श्रीवीरसन्मुखमागत्य स्वशङ्का निराकृत्य प्रवजितवन्तस्त्रिपदींच श्रुत्वा द्वादशाङ्गरचितवन्तः / प्रवज्यादिनादेव आवश्यकक्रियां कृतवन्तस्तस्मादावश्यकसूत्रमपि तद्दिने एव श्रीगणधरैः रचितम् / गणधरकृच्छ्रीआवश्यकसूत्रेण गणधरैरपि आवश्यकमाचरितमस्ति। इदं मूलसूत्रं गणधरकृदस्ति, तस्योपरि चतुर्दशपूर्वविच्छ्रीभद्रबाहुस्वामिना नियुक्तिः कृता तस्योपरि भगवच्छ्रीहरिभद्रसूरिणा वृत्तिः रचिता। आवश्यकनिर्युक्तेः प्रथमे विभागे ज्ञानपञ्चकरूपा नन्दी आख्याता, तस्यां मत्यादिपञ्चज्ञानस्य स्वरूपं प्ररूपितम् / अवश्य 8 कर्त्तव्यमावश्यकमथवा गुणानामावश्यमात्मानं करोतीत्यावश्यकम् / गुणशून्यमात्मानमावासयति गुणैरित्यावासकम्। समणेण सावएण य अवस्सकायव्वं हवइ जम्हा। अहोणिसस्स य तम्हा आवस्सयं नाम / श्रमणेण श्रावकेण च यस्मात् दिवसस्य रात्रेश्चातिचारस्य प्रतिक्रमणमवश्यं कर्तव्यं तस्मादावश्यकमिति नाम। यथा नगरस्य प्रवेशे द्वाराणि सन्ति तथा मन्त्रगर्भितगणधरकृच्छ्रीआवश्यकसूत्रस्य प्रवेशे चत्वारि अनुयोगद्वाराणि सन्ति / तद्यथा - // 7 //