SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 468 // सता भवतेदं न कार्यमिति, उत्पन्ने च प्रयोजने कर्तुकामेन होति पडिपुच्छ त्ति प्रतिपृच्छा कर्त्तव्या भवति, पाठान्तरं वापुव्वनिउत्तेण होइ पडिपुच्छा पूर्वनियुक्तेन सता यथा भवतेदं कार्यमिति तत्कर्तुकामेन गुरोः प्रतिपृच्छा कर्त्तव्या भवति- अहं तत्करोमीति, तत्र हि कदाचिदसौ कार्यान्तरमादिशति समाप्तं वा तेन प्रयोजनमिति // द्वारं 7 // तथा पूर्वगृहीतेनाशनादिना छन्दना शेषसाधुभ्यः कर्त्तव्या- इदं मयाऽशनाद्यानीतं यदि कस्यचिदुपयुज्यते ततोऽसाविच्छाकारेण ग्रहणं करोत्विति // द्वार ८॥तथा निमन्त्रणा भवत्यगृहीतेनाशनादिना अहंभवतोऽशनाद्यानयामीति गाथार्थः॥ द्वारं९॥इदानीमुपसम्पहारावयवार्थः प्रतिपाद्यते- सा चोपसम्पद् द्विधा भवति- गृहस्थोपसम्पत्साधूपसम्पच्च, तत्रास्तां तावद् गृहस्थोपसम्पत्, साधूपसम्पत्प्रतिपाद्यते- सा च त्रिविधा- ज्ञानादिभेदाद्, आह च नि०- उवसंपया यतिविहाणाणे तह दंसणे चरित्ते य / दसणणाणे तिविहा दुविहा य चरित्तअट्ठाए॥६९८ // उपसम्पच्च त्रिविधा ज्ञाने ज्ञानविषया तता दर्शनविषया चारित्रविषया च, तत्र दर्शनज्ञानयोः सम्बन्धिनी त्रिविधा द्विविधा च चारित्रार्थायेति गाथार्थः / तत्र यदुक्तं- दर्शनज्ञानयोस्त्रिविधे ति तत्प्रतिपादयन्नाह नि०- वत्तणा संधणाचेव, गहणं सुत्तत्थतदुभए। वेयावच्चेखमणे, काले आवकहाइ य॥६९९ // वर्त्तना सन्धना चैव ग्रहणमित्येतत्रितयं सुत्तत्थतदुभए त्ति सूत्रार्थोभयविषयमवगन्तव्यमिति, एतदर्थमुपसम्पद्यते, तत्र वर्तना प्राग्गृहीतस्यैवास्थिरस्य सूत्रादेर्गुणनमिति, सन्धना तु तस्यैव प्रदेशान्तरविस्मृतस्य मेलनं घटना योजना इत्यर्थः, ग्रहणं पुनः तस्यैव तत्प्रथमतया आदानमिति, एतत्रितयं सूत्रार्थोभयविषयं द्रष्टव्यम्, एवं ज्ञाने नव भेदाः, दर्शनेऽपि दर्शनप्रभावनीयशास्त्रविषया एत एव द्रष्टव्या इति, अत्र च सन्दिष्टः सन्दिष्टस्योपसम्पद्यते इत्यादिचतुर्भङ्गिका, प्रथमः शुद्धःशेषास्त्वशुद्धा 0.3 उपोद्घातनियुक्तिः, 0.3.5 पञ्चमद्वारम्, दशधासामाचारी। नियुक्तिः 698-699 ज्ञानदर्शनचारित्रोपसम्पदः त्रित्रिद्विभेदाः / // 468 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy