________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 467 // इतश्चैक एवार्थो यत आह___ भा०- जो होइ निसिद्धप्पा निसीहिया तस्स भावओ होइ / अणिसिद्धस्स निसीहिय केवलमेत्तं हवइ सद्दो // 121 // यो भवति निषिद्धात्मा- निषिद्धो मूलगुणोत्तरगुणातिचारेभ्यः आत्मा येनेति समासः, नैषेधिकी तस्य निषिद्धात्मनो भावतः परमार्थतो भवति, न निषिद्धोऽनिषिद्धः उक्तेभ्य एवातिचारेभ्यः तस्य अनिषिद्धस्य-अनुपयुक्तस्यागच्छतः नैषेधिकी, किं?केवलमत्तं हवई सद्दो केवलं शब्दमात्रमेव भवति, न भावत इति गाथार्थः॥ आह- यदि नामैवं तत एकार्थतायाः किमायातमिति?, उच्यते, निषिद्धात्मनो नैषेधिकी भवतीत्युक्तम्, सच भा०- आवस्सयंमि जुत्तो नियमणिसिद्धोत्ति होइ नायव्वो।अहवाऽवि णिसिद्धप्या णियमा आवस्सए जुत्तो॥१२२॥दारं॥ आवश्यके मूलगुणोत्तरगुणानुष्ठानलक्षणे युक्तः नियमनिसिद्धोत्ति होई नायव्वो नियमेन निषिद्धो नियमनिषिद्ध इति एवं भवति ज्ञातव्यः, आवश्यिक्यपिचावश्यकयुक्तस्यैवेत्यत एकार्थतेति / अथवेति प्रकारान्तरदर्शनार्थः, अपिशब्दस्य व्यवहितः सम्बन्धः, निषिद्धात्माऽपि नियमादावश्यके युक्तो यतः अतोऽप्येकार्थतेति, पाठान्तरं वा अहवावि निसिद्धप्पा सिद्धाणं अंतियं जाइ त्ति, अस्यायमर्थ:- एवं क्रियाया अभेदेनावश्यकीनषेधिक्योरेकार्थतोक्ता, इह तु कार्याभेदेनोच्यते, अथवा निषिद्धात्माऽपि सिद्धानामन्तिकं- सामीप्यं याति गच्छति, अपिशब्दादावश्यकयुक्तोऽपि, अतः कार्याभेदादेकार्थतेति गाथार्थः॥ द्वारं ४५॥साम्प्रतमापृच्छादिद्वारचतुष्टयमेकगाथयैव प्रतिपादयन्नाह नि०- आपुच्छणा उ कब्जे पुव्वनिसिद्धेण होई पडिपुच्छा। पुव्वगहिएण छंदण णिमंतणा होअगहिएणं // 697 // आप्रच्छनमापृच्छा सा च कर्तुमभीष्टे कार्ये प्रवर्त्तमानेन गुरोः कार्या- अहमिदं करोमीति // द्वारं 6 // तथा पूर्वनिषिद्धेन 0.3 उपोद्धातनियुक्तिः, 0.3.5 पञ्चमद्वारम्, | दशधासामाचारी। भाष्यः |121-122 नियुक्ति: 697 शय्यादौ नषेधिकी निषिद्धात्मत्वात् आपृच्छाद्याः (4) / // 467 //