________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 453 // तुर्विशेषणे, गोचरप्रदर्शनेन प्रत्येकं पृथक् प्रथक् प्ररूपणां वक्ष्य इति गाथाद्वयसमासार्थः॥ तत्रेच्छाकारो येष्वर्थेषु क्रियते तत्प्रदर्शनायाह नि०- जइ अब्भत्थेज परं कारणजाए करेज से कोई / तत्थवि इच्छाकारोन कप्पई बलाभिओगो उ॥६६८॥ 8 यदी त्यभ्युपगमे अन्यथा साधूनामकारणेऽभ्यर्थना नैव कल्पते, ततश्च यद्यभ्यर्थयेत् परं अन्यं साधुं ग्लानादौ कारणजाते कुर्यात् वा, से तस्य कर्तुकामस्य कश्चिद् अन्यसाधुः, तत्र कारणजातग्रहणमुभयथाऽपि सम्बध्यते, तत्रापि तेनान्येन वा साधुना तत्तस्य चिकीर्षितं कर्तुकामेन इच्छाकारः, कार्य इति क्रियाध्याहारः, अपिः चशब्दार्थे, अथवाऽपीत्यादिनान्यक्षेण वक्ष्यति, किमित्येवमत आह-नकल्पत एव बलाभियोग इति गाथार्थः / / उक्तगाथावयवार्थप्रतिपादनायैवाह नि०- अब्भुवगमंमि नजइ अन्भत्थेउंण वट्टई परोउ।अणिगृहियबलविरिएण साहुणा ताव होयव्वं // 669 // यद्यभ्यर्थयेत् पर मित्यस्मिन् यदिशब्दप्रदर्शिते अभ्युपगमे सति ज्ञायते, किमित्याह,- अभ्यर्थयितुं न वर्तते न युज्यते एव परः, किमित्यत एवाह-न निगूहिते बलवीर्ये येनेति समासः, बलं- शारीरं वीर्य- आन्तरः शक्तिविशेषः, तावच्छब्दः प्रस्तुतार्थप्रदर्शक एव, अनिगूहितबलवीर्येण तावदित्थं साधुना भवितव्यमिति / पाठान्तरं वा अणिगूहियबलविरिएण साहुणा जेण होयव्वं ति, अस्यायमर्थः- येन कारणेनानिगूहितबलवीर्येण साधुना भवितव्यमिति युक्तिः अतः अभ्यर्थयितुंन वर्त्तते पर इति गाथार्थः॥ आह- इत्थं तर्हि अभ्यर्थनागोचरेच्छाकारोपन्यासोऽनर्थक इति?, उच्यते, नि०- जइ हुज्ज तस्स अणलो कज्जस्स वियाणतीण वा वाणं / गिलाणाइहिंवा हुज वियावडो कारणेहिं सो॥६७०॥ यदि भवेत् तस्य प्रस्तुतस्य कार्यस्य, किं?- अनलः असमर्थः विजानाति न वा, वाणमिति पूरणार्थो निपातः, ग्लानादिभिर्वा 0.3 उपोद्घातनियुक्तिः, 0.3.5 पचमद्वारम्, दशधासामाचारी। नियुक्ति: 668 अभ्यर्थनायां कारणजाते चेच्छाकारः। नियुक्तिः 669-670 अनिगृहितबलवीर्येऽज्ञे व्यापृते, विनाशे तत्कुलर्वति, ज्ञानवैयावृत्त्यादिकारणान्तरे इच्छाकारः। // 453 //