SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 450 // पर्यवसानादिभेदेन चतुर्विकल्पा चतुर्भेदा सा स्थितिर्भवति द्रव्यस्य कालो द्रव्यकालः, तत्पर्यायत्वात्, अथवा द्रव्यं तु तदेव द्रव्यमेव कालो द्रव्यकाल इति गाथार्थः॥चेतनाचेतनद्रव्यचतुर्विधस्थितिनिदर्शनायाह नि०- गई सिद्धा भवियाया अभविय पोग्गल अणागयद्धाय / तीयद्ध तिन्नि काया जीवाजीवट्टिई चउहा ॥६६२॥दारं॥ __ गति त्ति देवादिगतिमधिकृत्य जीवाः सादिसपर्यवसानाः, सिद्ध त्ति सिद्धाः प्रत्येकं सिद्धत्वेन साद्यपर्यवसानाः भवियाय त्ति भव्याश्च भव्यत्वमधिकृत्य केचनानादिसपर्यवसानाः, अभविय त्ति अभव्याः खल्वभव्यतया अनाद्यपर्यवसाना इति जीवस्थितिचतुर्भङ्गिका। पोग्गल त्ति पूरणगलनधर्माणः पुद्गलाः, ते हि पुद्गलत्वेन सादिसपर्यवसानाः, अणागयद्ध त्ति अनागताद्धा-अनागतकालः, स हि वर्तमानसमयादिः सादिरनन्तत्वाच्चापर्यवसान इति, तीयद्ध त्ति अतीतकालोऽनन्तत्वादनादिः साम्प्रतसमयपर्यन्तविवक्षायां सपर्यवसान इति, तिण्णि काय त्ति धर्माधर्माकाशास्तिकायाः खल्वनाद्यपर्यवसाना इति, इत्थं जीवाजीवस्थितिश्चतुर्द्धति गाथार्थः॥ द्वारम् / अद्धाकालद्वारावयवार्थं व्याचिख्यासुराह नि०-समयावलिय मुहुत्ता दिवसमहोरत्त पक्ख मासा य ।संवच्छर युग पलिया सागर ओसप्पि परियट्टा ॥६६३॥दारं॥ तत्र परमनिकृष्टः कालः समयोऽभिधीयते, स च प्रवचनप्रतिपादितपट्टशाटिकापाटनदृष्टान्तादवसेयः, आवलिकाअसङ्खयेयसमयसमुदायलक्षणा, द्विघटिको मुहूर्तः, दिवसश्चतुष्प्रहरात्मकः, यद्वा आकाशखण्डमादित्येन स्वभाभिर्व्याप्त तद्दिवसं इत्युच्यते, शेषं निशेति, अहोरात्रमष्टप्रहरात्मकहनिशमित्यर्थः, पक्षः- पञ्चदशाहोरात्रात्मकः, मासः- तद्द्विगुणः, चः समुच्चये, संवत्सरो- द्वादशमासात्मकः, युगं पञ्चसंवत्सरम्, असङ्खयेययुगात्मकंपलितमिति उत्तरपदलोपाद्, इत्थं सागरोपममपि, तत्र पल्योपमदशकोटीकोट्यात्मकं सागरमाख्यायते, उत्सर्पिणी-सागरोपमदशकोटीकोट्यात्मिका, एवमवसर्पिण्यपि, 0.3 उपोद्घातनियुक्तिः, 0.3.5 पञ्चमद्वारम्, दशधासामाचारी। नियुक्तिः 662-663 कालनिक्षेपाः (11) द्रव्ये स्थितिः (4) अद्धायां समयाद्याः, यथायुष्के निर्वतितानुभव:, उपक्रमे त्रिविधा सामाचारी ओघाद्या(३)। // 450 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy