________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 422 // विप्रमुक्तमुक्तनिरासार्थत्वात् तस्येति, तथा च कैश्चित् अचेतना मुक्ता गुणवियोगमोक्षवादिभिरिष्यन्त एवेति गाथार्थः // 599 / / इत्थं नामगोत्रसंलप्तस्य तस्य चिन्ताऽभवत्- अहो नामापि मे विजानाति, अथवा प्रसिद्धोऽहम्, को मां न वेत्ति?, यदि मे हृद्गतं संशयं ज्ञास्यति अपनेष्यति वा, स्यान्मम विस्मय इति, अत्रान्तरे भगवानाह नि०-किंमन्नि अत्थि जीवो उआहु नत्थित्ति संसओ तुज्झ / वेयपयाण य अत्थं न याणसी तेसिमो अत्थो॥६००॥ हे गौतम! किं मन्यसे- अस्ति जीव उत नास्तीति, ननु अयमनुचितस्ते संशयः, अयं च संशयस्तव विरुद्धवेदपदश्रुतिनिबन्धनः, तेषां वेदपदानां चार्थं न जानासि, यथा न जानासि तथा वक्ष्यामः, तेषामयमों- वक्ष्यमाणलक्षण इति / अन्ये तु-किंशब्दं परिप्रश्नार्थे व्याचक्षते, तच्चन युज्यते, भगवतः सकलसंशयातीतत्वात्, संशयवतश्च तत्प्रयोगदर्शनात्, किमित्थमन्यथेति वा, अथवा किमस्ति जीव उत नास्ति इति मन्यसे, अयं संशयस्तव, शेषं पूर्ववदिति गाथार्थः॥६००॥ यदुक्तंसंशयस्तव विरुद्धवेदपदश्रुतिनिबन्धन इति, तान्यमूनि वेदपदानि-विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति, न प्रेत्य सञ्ज्ञाऽस्तीत्यादीनि, तथा स वै अयमात्मा ज्ञानमय इत्यादीनि च, एतेषां चायमर्थो भवतः चेतसि विपरिर्त्तते-विज्ञानमेव चैतन्यम्, नीलादिरूपत्वात्, चैतन्यविशिष्टं यन्नीलादि तस्मात्, तेन घनो विज्ञानघनः, स एव एतेभ्यः अध्यक्षतः परिच्छिद्यमानस्वरूपेभ्यः, केभ्यः?- भूतेभ्यः पृथिव्यादिलक्षणेभ्यः, किं?- समुत्थाय उत्पद्य, पुनस्तानि एव अनु विनश्यति अनु- पश्चाद्विनश्यति विज्ञानघनः, न प्रेत्य संज्ञाऽस्ति प्रेत्य मृत्वा न पुनर्जन्म न परलोकसज्ञाऽस्ति इति भावार्थः। ततश्च कुतो जीवः?, युक्त्युपपन्नश्च अयमर्थः, (इति) ते मतिः- यतः प्रत्यक्षेणासौ न परिगृह्यते, यतः सत्संप्रयोगे पुरुषस्य इन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षं न चास्य इन्द्रियसम्प्रयोगोऽस्ति, नाप्ययमनुमानगोचरः, यतः- प्रत्यक्षपुरस्सरं पूर्वोपलब्धलिङ्गलिङ्गि 0.3 उपोद्धातनियुक्तिः, 0.3.4 चतुर्थद्वारम्, गणधरवक्तव्यता। नियुक्ति: 600 देवघोषः, गणधरा (११)ऽऽगमः जीव-कर्मतज्जीव-भूतताटश-बन्धदेव-नारकपुण्य-परलोकनिर्वाणसंशयाः, परिवारः, अमर्ष:, वेदपदार्थ: दीक्षा। // 422 //