________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् 0.3 उपोद्घातनियुक्तिः, 0.3.2 भाग-१ // 323 // वीरजिनादिवक्तव्यताः। भाष्यः 101-104 निष्क्रमणद्वारम्। भगवति शिबिकारूढे गच्छति सति नभःस्थलस्थाः कुसुमानि शुक्लादिपञ्चवर्णानि मुञ्चन्तः तथा दुन्दुभीस्ताडयन्तश्च, के?- देवगणाः देवसंघाताः, चशब्दस्य प्राक्सम्बन्धो व्यवहितः प्रदर्शित एव, प्रकर्षेण हृष्टाः प्रहृष्टाः, किं ?- भगवन्तमेव स्तुवन्तीति क्रियाऽध्याहारः / एवं स्तुवद्भिर्देवैः किमित्याह-समन्ततःसर्वासुदिक्षुसर्वं उच्छयं गगणं व्याप्तं गगनमिति गाथार्थः॥ भा०- वणसंडोव्व कुसुमिओपउमसरो वा जहा सरयकाले / सोहइ कुसुमभरेणं इय गगणयलं सुरगणेहिं // 101 // वनखण्डमिव कुसुमितं पद्मसरो वा यथा शरत्काले शोभते कुसुमभरेण- हेतुभूतेन, इय एवं गगनतलं सुरगणैः शुशुभे इति गाथार्थः॥ भा०- सिद्धत्थवणंच(व) जहा असणवणं सणवणं असोगवणं ।चूअवणंव कुसुमिअंइअगयणयलं सुरगणेहिं॥१०२॥ सिद्धार्थकवनमिव यथा असनवनम्, अशना:- बीजकाः, सणवनं अशोकवनंचूतवनमिव कुसुमितम्, इअ एवं गगनतलं सुरगणै रराजेति गाथार्थः॥ __भा०- अयसिवणं व कुसुमिअंकणिआरवणं व चंपयवणंव। तिलयवणं व कुसुमिअंइअगयणतलं सुरगणेहिं // 103 // अतसीवनमिव कुसुमितम्, अतसी- मालवदेशप्रसिद्धा, कर्णिकारवनमिव चम्पकवनमिव तथा तिलकवनमिव कुसुमित यथा राजते, इअ एवं गगनतलं सुरगणैः क्रियायोगः पूर्ववदिति गाथार्थः॥ भा०- वरपडहभेरिझल्लरिदुंदुहिसंखसहिएहिँ तूरेहिं / धरणियले गयणयले तूरनिनाओ परमरम्मो॥१०४॥ __ वरपटहभेरिझल्लरिदुन्दुभिशङ्कसहितैस्तूयः करणभूतैः, किं?- धरणितले गगनतले तूर्यनिनादः तूर्यनिर्घोषः परमरम्योऽभवदिति गाथार्थः॥