________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 321 // 95-96 निष्क्रमणद्वारम्। शिबिकाया मध्य एव मध्यकारस्तस्मिन् दिव्यं सुरनिर्मितं मणिकनकरत्नखचितं सिंहासनं महार्हम्, तत्र मणयः- चन्द्रा- 0.3 उपोद्घातकान्ताद्याः कनकं-देवकाञ्चनं रत्नानि-मरकतेन्द्रनीलादीनि चिंचइअंति देशीवचनतः खचितमित्युच्यते। सिंहप्रधानमासनं नियुक्तिः, 0.3.2 सिंहासनम्, महान्तं- भुवनगुरुमर्हतीति महार्हम्, सह पादपीठेनेति सपादपीठम्, जिनवरस्य, कृतमिति वाक्यशेषः इति / | द्वितीयद्वारम्, गाथार्थः॥ वीरजिनादि | वक्तव्यताः। भा०- आलइअमालमउडो भासुरबोंदी पलंबवणमालो।सेययवत्थनियत्थो जस्स य मोल्लं सयसहस्सं॥९५॥ | भाष्यः भा०- छटेणं भत्तेणं अज्झवसाणेण सोहणेण जिणो। लेसाहिँ विसुझंतो आरुहई उत्तमं सी॥९६॥ आलइअंआविद्धमुच्यते, माला- अनेकसुरकुसुमग्रथिता, मुकुटस्तु प्रसिद्ध एव, माला च मुकुटश्च माला-मुकुटौ आविद्धौ मालामुकुटौ यस्येति विग्रहः / भास्वरा- छायायुक्ता बोन्दी- तनुः यस्य स तथाविधः, प्रलम्बा वनमाला- प्रागभिहिता अन्या वा यस्येति समासः / सेययवत्थनियत्थो त्ति नियत्थं-परिहितं भण्णइ, निवसितं श्वेतं वस्त्रं येन स निवसितश्वेतवस्त्रः बन्धानुलोम्यात् निवसितशब्दस्य सूत्रान्ते प्रयोगः, लक्षणतस्तु बहुव्रीहौ निष्ठान्तंपूर्वं निपततीति पूर्वं द्रष्टव्यः, श्वेतवस्त्रपरिधान इत्यर्थः / यस्य च मूल्यं शतसहस्रं दीनाराणामिति गाथार्थः / स एवंभूतो भगवान्मार्गशीर्षबहुलदशम्यां हस्तोत्तरानक्षत्रयोगेन / छट्टेणं भत्तेणं इत्यादि, षष्ठेन भक्तेन, दिनद्वयमुपोषित इत्यर्थः / अध्यवसानं- अन्तःकरणसव्यपेक्षं विज्ञानं तेन सुन्दरेण शोभनेन , जिनः पूर्वोक्तः, तथा लेश्याभिर्विशुध्यमानः मनोवाक्कायपूर्विकाः कृष्णादिद्रव्यसम्बन्धजनिताः खलु आत्मपरिणामाः लेश्या , // 321 // इति, उक्तंच- कृष्णादिद्रव्यसाचिव्यात्, परिणामो य आत्मनः / स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रयुज्यते॥१॥ताभिः विशुध्यमानः, 7 सुंदरेण वृत्तौ।