________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 197 // नि०- पढमित्थ विमलवाहण चक्खुम जसमं चउत्थमभिचंदे / तत्तो अपसेणइए मरुदेवेचेव नाभी य॥१५५ // प्रथमोऽत्र विमलवाहनश्चक्षुष्मान् यशस्वी चतुर्थोऽभिचन्द्रः ततश्च प्रसेनजित् मरुदेवश्चैव नाभिश्चेति, भावार्थः सुगम एवेति गाथार्थः // 155 // गतं नामद्वारम्, अधुना प्रमाणद्वारावयवार्थाभिधित्सयाऽऽह नि०- णव धणुसया य पढमो अट्ठय सत्तद्धसत्तमाइंच / छच्चेव अद्धछट्ठा पंचसया पण्णवीसंतु // 156 // नव धनुः शतानि प्रथमः अष्टौ च सप्त अर्धसप्तमानि षड् च अर्धषष्ठानि पञ्च शतानि पञ्चविंशति, अन्ये पठन्ति- पञ्चशतानि विंशत्यधिकानि, यथासंख्यं विमलवाहनादीनामिदंप्रमाणं द्रष्टव्यं इति गाथार्थः ॥१५६॥गतं प्रमाणद्वारम्, इदानी कुलकरसंहननसंस्थानप्रतिपादनायाह नि०- वज़रिसहसंघयणा समचउरंसाय हुंति संठाणे।वण्णंपिय वुच्छामि पत्तेयं जस्स जो आसी॥१५७॥ वज्रऋषभसंहननाः सर्व एव समचतुरस्राश्च भवन्ति संस्थाने इति संस्थानविषये निरूप्यमाणा इति, वर्णद्वारसम्बन्धाभिधानायाहवर्णमपि च वक्ष्ये प्रत्येकं यस्य य आसीदिति गाथार्थः // 157 // नि०- चक्खुम जसमंच पसेणइएए पिअंगुवण्णाभा। अभिचंदो ससिगोरो निम्मलकणगप्पभा सेसा // 158 // चक्षुष्मान् यशस्वी च प्रसेनजिच्चैते प्रियङ्गवर्णाभाः अभिचन्द्रः शशिगौरः निर्मलकनकप्रभाः शेषाः-विमलवाहनादयः, भावार्थः सुगम एव, नवरं निर्मलकनकवत् प्रभा- छाया येषां ते तथाविधा इति गाथार्थः // 158 // गतं वर्णद्वारम्, स्त्रीद्वारव्याचिख्यासयाऽऽह 0पण्णवीसा य / 0 पञ्चविंशतिश्च / 0 प्यमाणे / 0.3 उपोद्धातनियुक्तिः, 0.3.2 द्वितीयद्वारम्, वीरजिनादिवक्तव्यताः। नियुक्तिः |155-168 कुलकराणां नामप्रमाणसंहननवर्णस्त्रीसंस्थानोच्चत्ववर्णायु:स्त्यायुःकुलकरत्कालदेवत्वतत्स्त्रीहस्त्युपपातनीतयः। // 197 //