________________ सम्पादकीयम् श्रीसूत्रकृताचं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 7 // // सम्पादकीयम्॥ आ-समन्तात् गम्यते मोक्षं प्रति येन स आगमः। देवगुरुधर्मविनयेन स आगमः फलति, विद्या विनयेन शोभते इत्युक्त्यनुसारेण संस्मरणमात्रेण समाधिदायकं टीण्टोइमण्डनश्रीमुहरीपार्श्वनाथं नत्वा व्याख्यानवाचस्पतिसन्मार्गदर्शकदीक्षायुगप्रवर्तकपूज्यपादाचार्यदेवेशश्रीमद्विजय रामचन्द्रसूरीश्वरं संयममार्गप्रापकसमतानिधिपरमगुरुदेवपूज्यदर्शनभूषणविजयगुरुवरंच प्रणम्य अयं ज्ञानधर्मरूपो ग्रन्थः प्रस्तूयते। श्रीसूत्रकृताङ्गे प्रथमश्रुतस्कन्धे योऽर्थः समासतोऽभिहितोऽसावेवानेन श्रुतस्कन्धेन सोपपत्तिको व्यासेनाभिधीयते। पूर्वश्रुतस्कन्धे / योऽर्थ उक्तः स एवानेन द्वितीयश्रुतस्कन्धेन दृष्टान्तद्वारेण सुखावगमार्थं प्रतिपाद्यते। तस्मिन् सप्त महाध्ययनानि प्रतिपाद्यन्ते। प्रथमे पुण्डरीकाध्ययने पौण्डरीकोपमया स्वसमयगुणव्यवस्थापनम् / पुण्डरीककण्डरीकयोर्धात्रोर्महाराजपुत्रयोः सदसदनुष्ठान-8 परायणतया शोभनत्वमवगम्य तदुपमया यच्छोभनं तत्पौण्डरीकमितरस्तु कण्डरीकमिति। द्वितीयं क्रियास्थानाध्ययनम् / यथा कर्म द्वादशभिः क्रियास्थानैर्बध्यते यथा च त्रयोदशेन मुच्यते तदेतत्पूर्वोक्तमेव बन्धमोक्षयोः प्रतिपादनं क्रियते। द्वादशसु क्रियास्थानेषु अधर्मपक्षोऽवतार्यते, त्रयोदशे क्रियास्थाने धर्मपक्षाऽवतारः। तृतीये आहारपरिज्ञाख्याध्ययने कर्मक्षपणार्थमुद्यतेन भिक्षुणा द्वादशक्रियास्थानरहितेनान्त्यक्रियास्थानसेविना सदाऽऽहारगुप्तेन भवितव्यम् / धर्माधारभूतस्य शरीरस्याधारो भवत्याहारः,सच मुमुक्षुणोद्देशकादिदोषरहितो ग्राह्यः / चतुर्थे प्रत्याख्यानक्रियाख्याध्ययने यत्तृतीये आहारागुप्तस्य कर्मबन्धोऽभिहितोऽत्र तत्प्रत्याख्यानं प्रतिपद्यते / यदिवा तृतीये उत्तरगुणसंपादनार्थं शुद्धतराऽऽहारपरिज्ञोक्ता, सा चोत्तरगुणरूपा प्रत्याख्यानसमन्वितस्य भवतीत्यत आहारपरिज्ञाऽनन्तरं प्रत्याख्यान // 7 //