SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ सम्पादकीयम् | श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 8 // क्रियाऽध्ययनम् / पञ्चममाचारश्रुताऽध्ययनम् / प्रत्याख्यानक्रिया आचारसंव्यवस्थितस्य सतो भवतीत्याचारश्रुताऽध्ययनं प्ररूपितम् / षष्ठं आर्द्रकीयाध्ययनम् / पञ्चमे आचारानाचारयोः स्वरूपंप्रतिपादितं तच्चाशक्यानुष्ठानं न भवत्यतस्तदासेवको दृष्टान्तभूतश्चाईकः प्रतिपाद्यते अथवाऽनाचारफलं ज्ञात्वा सदाचारे प्रयत्न: कार्यः, यथाऽऽर्द्रकुमारेण प्रयत्नः कृतः। इत्युपदेशरूपं आर्द्रकीयाध्ययनम् / सप्तमं नालन्दाऽध्ययनम् / पूर्वंसकलेन सूत्रकृताङ्गेन साध्वाचारःप्ररूपितोऽत्र तु श्रावकविधिरुच्यते / एवं साधुः श्रमणसूत्रे तेवीसाए सूयगडज्झयणेहिं सूत्रेण सूत्रकृताङ्गे त्रयोविंशत्यध्ययने य आचारः प्ररूपितस्तस्य वितथाचरणे प्रतिक्रमणं करोति / द्वितीयश्रुतस्कन्धे दृष्टान्तद्वारेण आचारप्ररूपणामवगम्य शिथिलाचारं त्यजन्तो भव्यजीवाः आचारवन्तः स्युरिति प्रार्थना। पू. श्रुतोपासक मुनिराजश्री जम्बूविजयेन संशोधिताः पाठा गृहीताः सन्ति मुद्रिताश्च पाठाः टीप्पण्यां (मु०) संज्ञया स्थापिताः सन्ति / मुनिपुण्यकीर्तिविजयोगणिः। श्री श्रीपालनगर जैन श्वे० मूर्तिपूजक देरासर ट्रस्ट श्रीपालनगर, 12 जमनादास मेहता मार्ग, वालकेश्वर, मुंबई - 400006. विक्रम सं० 2063 वीर सं० 2533 // 8 //
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy