SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 521 // श्रुतस्कन्ध:२ प्रथममध्ययन पौण्डरीकम्, सूत्रम् 10 पञ्चभूतवादी सूत्रम् 11 (646) ईश्वरकारणिकः भावप्रसङ्गः स्यात्, तस्मान्न पञ्चभूतात्मकं जगदिति स्थितम् / अपिच- इदंज्ञानं स्वसंवित्तिसिद्धमात्मानं धर्मिणमुपस्थापयति, नच भूतान्येव धर्मित्वेन परिकल्पयितुं युज्यन्ते, तेषामचेतनत्वाद्, अथ कायाकारपरिणतानां चैतन्यं धर्मो भविष्यतीत्येतदप्ययुक्तम्, यतः कायाकारपरिणाम एव तेषामात्मानमधिष्ठातारमन्तरेण न भवितुमर्हति, निर्हेतुकत्वप्रसङ्गात्, निर्हेतुकत्वे च नित्यं सत्त्वमसत्त्वं वा स्यादिति / तदेवं भूतव्यतिरिक्त आत्मा तस्मिंश्च सति सदसदनुष्ठानतः पुण्यपापे, ततश्च जगद्वैचित्र्यसिद्धिरिति / एवं च व्यवस्थिते तेऽनार्या सांख्या लोकायतिका वा पञ्चमहाभूतप्रधानाभ्युपगमेन विप्रतिपन्ना यत्कुर्युस्तदर्शयितुमाह- तं सद्दहमाणा इत्यादि, तं आत्मीयमभ्युपगमं पूर्वोक्तया नीत्या नियुक्तिकमपि श्रद्दधानाः पञ्चमहाभूतात्मकप्रधानस्य सर्वकार्याणि उपगच्छन्ति, तदेव च सत्यमित्येवं प्रतियन्तः प्रतिपद्यमानास्तदेव चात्मीयमभ्युपगमंरोचयन्तस्तद्धर्मस्याख्यातारं प्रशंसयन्तः, तद्यथा-स्वाख्यातो भवता धर्मोऽस्माकमयमत्यन्तमभिप्रेत इत्येवं ते तदध्यवसाया:- सावधानुष्ठानेनाप्यधर्मो न भवतीत्यध्यवसायिनःस्त्रीकामेषु मूर्च्छिता इत्येवं पूर्ववज्ज्ञेयं यावत्तदन्तरे कामभोगेषु विषण्णा ऐहिकामुष्मिकोभयकार्यभ्रष्टा नात्मत्रा(नस्त्राणाय नापि परेषामिति / भवत्येवं द्वितीयः पुरुषजातः पञ्चमहाभूताभ्युपगमिको व्याख्यात इति // 10 // 645 // साम्प्रतमीश्वरकारणिकमधिकृत्याह अहावरे तच्चे पुरिसजाए ईसरकारणिए इति आहिजड़, इह खलु पादीणं वा 6 संतेगतिया मणुस्सा भवंति अणुपुव्वेणं लोयं उववन्ना, तं०-आरिया वेगे जाव तेसिंचणं महंते एगेराया भवइ जाव सेणावइपुत्ता, तेसिंचणं एगतीए सड्डी भवइ, कामंतंसमणा य माहणा य पहारिंसु गमणाए जाव जहा मए एस धम्मे सुअक्खाए सुपन्नत्ते भवइ / इह खलु धम्मा पुरिसादिया पुरिसोत्तरिया पुरिसप्पणीया पुरिससंभूया पुरिसपज्जोतिता पुरिसअभिसमण्णागया पुरिसमेव अभिभूय चिटुंति, से जहाणामए गंडे सिया सरीरे // 521 //
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy