________________ श्रुतस्कन्धः सप्तममध्ययन श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 787 // भणनीयानि, तत्र यत्र त्रसास्तत्रादानश:- आदेरारभ्य श्रमणोपासकेनामरणान्तो दण्डस्त्यक्त इत्येवं योजनीयम्, यत्र तु स्थावरास्तत्रार्थाय दण्डो न निक्षिप्तो- न परित्यक्तोऽनय च दण्डः परित्यक्त इति / शेषाक्षरघटना तु स्वबुद्ध्या विधेयेति // तदेवं नालन्दीयम्, बहुभिर्दष्टान्तैः सविषयतां श्रावकप्रत्याख्यानस्य प्रसाध्याधुनात्यन्तासम्बद्धतां चोद्यस्य सूत्रेणैव दर्शयितुमाह- भगवं च णं सूत्रम् 81 उदाहु इत्यादि, भगवान् गौतमस्वाम्युदकं प्रत्येतदाह, तद्यथा- नैतद्भूतमनादिके काले प्रागतिक्रान्ते नाप्येतदेष्येऽनन्ते काले (804) विघ्नशुद्धिः भाव्यं नाप्येतद्वर्तमानकाले भवति ये (यत्) त्रसाः प्राणाः सर्वथा निर्लेपतया स्वजात्युच्छेदेनोच्छेत्स्यन्ति-स्थावरा भविष्यन्तीति, तथा स्थावराश्च प्राणिनः कालत्रयेऽपि नैव समुच्छेत्स्यन्ति- वसा भविष्यन्ति, यद्यपि तेषां परस्परसंक्रमेण गमनमस्ति तथापि न सामस्त्येनान्यतरेषामितरत्र सद्भावः, तथाहि-न होवंभूतः संभवोऽस्ति यदुत प्रत्याख्यानिनमेकं विहायापरेषां नारकाणां द्वीन्द्रियादीनां तिरश्चांमनुष्यदेवानांच सर्वदाऽप्यभावः, एवं चत्रसविषयं प्रत्याख्यानं निर्विषयं भवति यदितस्य प्रत्याख्यानिनो। जीवत एव सर्वेऽपि नारकादयस्त्रसाः समुच्छिद्यन्ते, न चास्य प्रकारस्य संभवोऽस्त्युक्तन्यानेनेति, स्थावराणां चानन्तानामनन्तत्वादेव नासंख्येयेषुत्रसेषूत्पाद इति सुप्रतीतमिदम् / तदेवमव्यवच्छिन्नस्त्रसैः स्थावरैश्च प्राणिभिर्यद्वदत यूयमन्यो वा कश्चिद्वदति, तद्यथा- नास्त्यसौ पर्यायो यत्र श्रमणोपासकस्यैकत्रसविषयोऽपि दण्डपरित्याग इति, तदेतदुक्तनीत्या सर्वमशोभनमिति // ८०॥८०३॥सांप्रतमुपसंजिघृक्षुराह भगवं च णं उदाहु आउसंतो! उदगा जे खलु समणं वा माहणं वा परिभासेड़ मित्ति मन्नंति आगमित्ता णाणं आगमित्ता दंसणं आगमित्ता चरित्तं पावाणं कम्माणं अकरणयाए से खलु परलोगपलिमंथत्ताए चिट्ठइ, जे खलु समणं वा माहणं वा णो परिभासइ (r) यत्र यत्र त्रसाः (मु०)। ॐ यद्यपि च (प्र०)। (c) तदेवमव्युच्छिन्नस्त्रसैः (प्र०)। // 787 //