________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 776 // श्रावकप्रत्याख्यानस्य संभुंजित्तए?, हंता कप्पंति, तेणं एयारूवेणं विहारेणं विहरमाणातंचेवजाव अगारंवएजा?, हंता वएज्जा, तेणं तहप्पगारा कप्पंति श्रुतस्कन्धः२ संभुंजित्तए?, णो इणढे समढे, सेजे से जीवे से परेणं नो कप्पंति संभुजित्तए, से जे से जीवे आरेणं कप्पंति संभुंजित्तए, से जे से जीवे सप्तममध्ययन नालन्दीयम्, जे इयाणी णो कप्पंति संभुंजित्तए, परेणं अस्समणे आरेणं समणे, इयाणिं अस्सम्मणे, अस्समणेणं सद्धिं णो कप्पंति समणाणं सूत्रम् 78 निग्गंथाणं संभुंजित्तए, से एवमायाणह? णियंठा! से एवमायाणियव्वं ॥सूत्रम् 78 // (1801 // ) (801) णमिति वाक्यालङ्कारे, चशब्दः पुनःशब्दार्थे, पुनरपि भगवान् गौतमस्वाम्येवाह- स्वौद्धत्यपरिहरणार्थमपरानपि तत्स्थविरान् साक्षिणः कर्तुमिदमाह- निर्ग्रन्था युष्मत्स्थविराः खलु प्रष्टव्याः, तद्यथा- आयुष्मन्तो निर्ग्रन्था! युष्माकमप्येतद्वक्ष्य सविषयता माणमभिमतमाहोस्विन्नेति, अवष्टम्भेन चेदमाह, युष्माकमप्येतदभिप्रेतं यदहं वच्मि, तद्यथा-शान्तिः- उपशमस्तत्प्रधाना एके केचन मनुष्या भवन्ति, न नारकतिर्यग्देवाः, किं तर्हि?, मनुष्याः, तेऽपि नाकर्मभूमिजा नापि म्लेच्छा अनार्या वा, तेषांक चार्यदेशोत्पन्नानामुपशमप्रधानानां एतद् उक्तपूर्वं भवति- अयं व्रतग्रहणविशेषो भवति, तद्यथा- य इमे मुण्डा भूत्वाऽगाराद्गृहानिर्गत्यानगारतां प्रतिपन्नाः- प्रव्रजिता इत्यर्थः, एतेषां चोपर्यामरणान्तं मया दण्डो न निक्षिप्त:- परित्यक्तो भवति, इदमुक्तं भवति-कश्चित्तथाविधो मनुष्यो यतीनुद्दिश्य व्रतं गृह्णाति, तद्यथा-न मया यावज्जीवं यतयो हन्तव्याः, तथा ये चेमेऽगारंगृहवासमावसन्ति तेषां दण्डो न निक्षिप्त इत्येवं केषांचिद् व्रतग्रहणविशेषे व्यवस्थिते सति इदमपदिश्यते- तत्र केचन श्रमणाः प्रव्रजिताः कियन्तमपि कालं प्रव्रज्यापर्यायं प्रतिपाल्य, तमेव कालविशेषं दर्शयति- यावद्वर्षाणि चत्वारि पञ्च वा षड् दश वा, अस्य चोपलक्षणार्थत्वादन्योऽपि कालविशेषो द्रष्टव्यः, तमेवाह- अल्पतरं वा प्रभूततरं वा कालं तथा देशं च दूइजित त्ति 7 दण्डो निक्षिप्तः (मु०)। 0 दूइज्ज त्ति (प्र०)। // 776 //