________________ श्रीसूत्रकृताज नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 / / 772 // श्रुतस्कन्धः२ सप्तममध्ययन नालन्दीयम्, सूत्रम् 77 (800) श्रावकप्रत्याख्यानस्य सविषयता उववखंति, तेसिंचणं तसकायंसि उववन्नाणं ठाणमेयं अघत्तं, ते पाणावि वुच्चंति, ते तसावि वुच्चंति, ते महाकाया ते चिरट्टिइया, ते बहुयरगा पाणा जेहिं समणोवासगस्स सुपच्चक्खायं भवति, ते अप्पयरागा पाणा जेहिं समणोवासगस्स अपच्चक्खायं भवइ, से महया तसकायाओ उवसंतस्स उवट्ठियस्स पडिविरयस्स जन्नं तुब्भे वा अन्नो वा एवं वदह- णत्थि णं से केइ परियाए जंसि समणोवासगस्स एगपाणाएविदंडे णिक्खित्ते, अयंपि भेदे से णोणेयाउए भवइ ।सूत्रम् 77 / / ( / / 800 / ) सद्वाचं सवादं वोदक:पेढालपुत्रो भगवन्तं गौतममेवमवादीत्, तद्यथा-आयुष्मन् गौतम! नास्त्यसौ कश्चित्पर्यायो यस्मिन्नेकप्राणातिपातविरमणेऽपि श्रमणोपासकस्य विशिष्टविषयामेव प्राणातिपातनिवृत्तिं कुर्वतो दण्डः- प्राण्युपमर्दनरूपो निक्षिप्तपूर्वःपरित्यक्तपूर्वो भवति, इदमुक्तं भवति- श्रावकेण त्रसपर्यायमेकमुद्दिश्य प्राणातिपातविरतिव्रतं गृहीतम्, संसारिणां च परस्परगमनसंभवात् ते च त्रसाः सर्वेऽपिकिल स्थावरत्वमुपगतास्ततश्च त्रसानामभावानिर्विषयं तत्प्रत्याख्यानमिति / एतदेव प्रश्नपूर्वकं दर्शयितुमाह- कस्स णं तं हेउ मित्यादि, णमिति वाक्यालङ्कारे, कस्य हेतोरिदमभिधीयते, केन हेतुनेत्यर्थः। सांसारिकाः प्राणाः परस्परसंसरणशीला यतस्ततः स्थावराः सामान्येन त्रसतया प्रत्यायान्ति, वसा अपि स्थावरतया प्रत्यायान्ति। तदेवं संसारिणां परस्परगमनं प्रदाधुना यत्परेण विवक्षितं तदाविष्कुर्वन्नाह- थावरकायाओइत्यादि, स्थावरकायाद्विप्रमुच्यमानाः स्वायुषा तत्सहचरितैश्चकर्मभिः सर्वे-निरवशेषास्त्रसकाये समुत्पद्यन्ते, त्रसकायादपि तदायुषा विप्रमुच्यमानाः सर्वेस्थावरकाये समुत्पद्यन्ते, तेषां च त्रसानां सर्वेषां स्थावरकायसमुत्पन्नानां स्थानमेतद्घात्यं वर्तते, तेन श्रावकेण स्थावरकायवधनिवृत्तेरकरणाद्, अतःसर्वस्य त्रसकायस्य स्थावरकायत्वेनोत्पत्तेर्निर्विषयं तस्य श्रावकस्य त्रसवधनिवृत्तिरूपं प्रत्याख्यानं प्राप्नोति, तद्यथाकेनचिद्वतमेवंभूतं गृहीतं यथा- मया नगरनिवासी न हन्तव्यः, तच्चोद्वसितं नगरम्, अतो निर्विषयं तत्तस्य प्रत्याख्यानम्, // 772 //