________________ श्रुतस्कन्धः२ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 750 / / षष्ठमध्ययनं आईक्रीयम्, सूत्रम् 53-55 (788-790) एकदण्डिनः हस्तितापसवर्णनंच मेतदेवाईककुमारो हस्तितापसमतं दूषयितुमाह संवच्छरेणावि य एगमेगं, पाणं हणंता अणियत्तदोसा / सेसाण जीवाण वहेण लग्गा, सिया य थोवं गिहिणोऽवि तम्हा।। सूत्रम् 53 // ( // 788 // ) संवच्छरेणावि य एगमेगं, पाणं हणंता समणव्वएसु / आयाहिए से पुरिसे अणजे, ण तारिसे केवलिणो भवंति // सूत्रम् 54 // ( // 789 // ) बुद्धस्स आणाएँ इमंसमाहिं, अस्सिंसुठिच्चा तिविहेण ताई। तरिउंसमुदं व महाभवोघं, आयाणवंधम्ममुदाहरेजा।सूत्रम् 55 // ( // 790 // ) त्तिबेमि // इति अद्दइज्जणाम छट्ठमज्झयणं समत्तं // ___ संवत्सरेणैकैकं प्राणिनं घ्नन्तोऽपि प्राणातिपातादनिवृत्तत्वादनिवृत्तदोषास्ते भवन्ति, आशंसादोषश्च भवतां पञ्चेन्द्रियमहाकाय सत्त्ववधपरायणानामतिदुष्टो भवति, साधूनां तु सूर्यरश्मिप्रकाशितवीथिषु युगमात्रदृष्ट्या गच्छतामीर्यासमितिसमितानां द्विचत्वारिंशद्दोषरहितमाहारमन्वेषयतां लाभालाभसमवृत्तीनां कुतस्त्य आशंसादोषः पिपीलिकादिसत्त्वोपघातो वेत्यर्थः, स्तोकसत्त्वोपघातेनैवंभूतेन दोषाभावो भवताऽभ्युपगम्यते, तथा च सति गृहस्था अपि स्वारम्भदेशवर्तिन एव प्राणिनो घ्नन्ति शेषाणां च जन्तूनां क्षेत्रकालव्यवहितानां भवदभिप्रायेण वधे न प्रवृत्ताः, यत एवं तस्मात्कारणात्स्यादेवं स्तोक मिति स्वल्पं यस्मात्घ्नन्ति ततस्तेऽपि दोषरहिता इति ॥५३॥७८८॥साम्प्रतमार्द्रककुमारोहस्तितापसान्दूषयित्वा तदुपदेष्टारं दूषयितुमाहसंवच्छरेणे त्यादि, श्रमणानां- यतीनांव्रतानि श्रमणव्रतानितेष्वपि व्यवस्थिताः सन्त एकैकं संवत्सरेणापि ये घ्नन्ति ये चोपदिशन्ति (r) पातादनिवृत्तदोषास्ते (मु०)। // 750 //