________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 728 // आर्द्र शङ्कमानः- तेषां विभ्यन्न तत्र तन्मध्ये उपैति- उपगच्छतीति, ततश्च न ऋजुर्मार्गः, इति भययुक्तत्वात्तस्य, तथा म्लेच्छविषयं / श्रुतस्कन्धः 2 गत्वा न कदाचिद्धर्मदेशनां च करोति, आर्यदेशेऽपि न सर्वत्र अपितु कुत्रचिदेवेत्यतो विषमदृष्टित्वाद्रागद्वेषवर्त्यसाविति॥ षष्ठमध्ययनं आईक्रीयम्, 16 // 751 // एतद्गोशालकमतं परिहर्तुकाम आर्द्रक आह- स हि भगवान्प्रेक्षापूर्वकारितया नाकामकृत्यो भवति, कमनं सूत्रम् 15-18 कामः- इच्छा न कामोऽकामस्तेन कृत्यं-कर्तव्यं यस्यासावकामकृत्यः, स एवंभूतो न भवति, अनिच्छाकारी न भवतीत्यर्थः, (750-753) यो ह्यप्रेक्षापूर्वकारितया वर्तते सोऽनिष्टमपि स्वपरात्मनोर्निरर्थकमपि कृत्यं कुर्वीत, भगवांस्तु सर्वज्ञः सर्वदर्शी परहितैकरतः कस्योत्तरः कथं स्वपरात्मनोनिरुपकारकमेवं कुर्यात्, तथा च बालस्येव कृत्यं यस्य स बालकृत्यो, न चासौ बालवदनालोचितकारी, न परानुरोधान्नापिगौरवाद्धर्मदेशनादिकं विधत्ते, अपितु यदि कस्यचिद्भव्यसत्त्वस्योपकाराय तद्भाषितं भवति ततः प्रवृत्तिर्भवति, नान्यथा, तथा न राजाभियोगेनासौ धर्मदेशनादौ कथञ्चित्प्रवर्तते, ततः कुतस्तस्य भयेन प्रवृत्तिः स्यादित्येवं व्यवस्थिते केनचित्क्वचित्संशयकृतं प्रश्नं व्यागृणीयाद् यदि तस्योपकारोभवति, उपकारमन्तरेण न च नैव व्यागृणीयाद्, यदिवाऽनुत्तरसुराणां मनःपर्यायज्ञानिनांच द्रव्यमनसैव तन्निर्णयसंभवादतोन व्यागृणीयादित्युच्यते।यदप्युच्यते भवता-यदि वीतरागोऽसौ किमिति धर्मकथां करोतीति चेदित्याशङ्कयाह- स्वकामकृत्येन स्वेच्छाचारिकारितयाऽसावपि तीर्थकृन्नामकर्मणः क्षपणाय न यथाकथंचिद्, अतोऽसावग्लानः इह अस्मिन्संसारे आर्यक्षेत्रे वोपकारयोग्ये, आर्याणां सर्वहेयधर्मदूरवर्तिनां तदुपकाराय धर्मदेशनां। व्यागृणीयादसाविति // 17 // 752 // किंचान्यत्- गंते त्यादि,सहि भगवान् परहितैकरतोगत्वापि विनेयासन्नमथवाऽप्यगत्वा 8 // 728 // यथा यथा भव्यसत्त्वोपकारो भवति तथा तथा भगवन्तोऽर्हन्तो धर्मदेशनां विदधति, उपकारे सति गत्वाऽपि कथयन्त्यसति तु स्थिता अपिन कथयन्तीत्यतो न तेषां रागद्वेषसंभव इति, केवलमाशुप्रज्ञ- सर्वज्ञः समतया समदृष्टितया चक्रवर्तिद्रमकादिषु /