________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 725 // द्विजातयः सर्वेऽप्येतेस्वकंपक्षसमर्थयन्ति परकीयं च दूषयन्ति / तदेव पश्चार्द्धन दर्शयति-स्वत इति स्वकीये पक्षेस्वाभ्युपगमेऽ श्रुतस्कन्धः२ स्ति पुण्यं तत्कार्यं च स्वर्गापवर्गादिकमस्ति, अस्वतश्च- पराभ्युपगमाच्च नास्ति पुण्यादिकमित्येवं सर्वेऽपि तीर्थिकाः आईक्रीयम्, परस्परव्याघातेन प्रवृत्ताः, अतो वयमपि यथावस्थिततत्त्वप्ररूपणतो युक्तिविकलत्वादेकान्तदृष्टिं गर्हामो जुगुप्सामो-न मान: सूत्रम् 11-14 ह्यसावेकान्तो यथावस्थिततत्वाविर्भावको भवतीति, एवं च व्यवस्थिते तत्त्वस्वरूपं वयमाचक्षाणा न कंचिद्गर्हामः (746-749) आर्द्र काणकुण्टोद्घट्टनादिप्रकारेण, केवलं स्वपरस्वरूपाविर्भावनं कुर्मो, न च वस्तुस्वरूपाविर्भावने परापवादः, तथा चोक्तं कस्योत्तरः नेत्रैर्निरीक्ष्य बिलकण्टककीटसर्पान्, सम्यक् पथा व्रजति तान्परिहृत्य सर्वान् / कुज्ञानकुश्रुतिकुमार्गकुदृष्टिदोषान्, सम्यग्विचारयत कोऽत्र परापवादः॥१॥इत्यादि / यदिवैकान्तवादिनामेव-अस्त्येव नास्त्येव नित्यमेवानित्यमेव सामान्यमेव विशेषा एवेत्याद्यभ्युपगमवतामयं- परस्परगर्हाख्यो दोषो, नास्माकमनेकान्तवादिनाम्, सर्वस्यापि सदसदादेः कथञ्चिदभ्युपगमात् / एतदेव श्लोकपश्चार्द्धन दर्शयति-स्वत इति, स्वद्रव्यक्षेत्रकालभावैरस्ति, तथा परत इति परद्रव्यादिभिर्नास्तीत्येवं पराभ्युपगभं दूषयन्तो गर्हामोऽन्यानेकान्तवादिनः, तत्स्वरूपनिरूपणतस्तु रागद्वेषविरहान्न किश्चिद्र्हाम इति स्थितम् // 12 // 747 // एतदेव स्पष्टतरमाह-न कञ्चन श्रमणं ब्राह्मणं वा स्वरूपेण- जुगुप्सिताङ्गावयवोद्धट्टनेन जात्या तल्लिङ्गग्रहणोद्धट्टनेन वा अभिधारयामो गर्हणाबुद्ध्योद्घट्टयामः, केवलं स्वदृष्टिमार्गं तदभ्युपगतं दर्शनं प्रादुष्कुर्मः प्रकाशयामः, तद्यथा-ब्रह्मा लूनशिरा हरिदृशि सरुग्व्यालुप्तशिश्नो हरः, सूर्योऽप्युल्लिखितोऽनलोऽप्यखिलभुक् सोमः कलङ्काङ्कितः। स्वाथोऽपि विसंस्थुलः खलु वपुःसंस्थैरुपस्थैः // 725 // कृतः, सन्मार्गस्खलनाद्भवन्ति विपदः प्रायः प्रभूणामपि // 1 // इत्यादि। एतच्च तैरेव स्वागमे पापठ्यते वयं तु श्रोतारः केवलमिति। (r) व्रजत प्र० क्रियाऽभिव्याहारे तत्प्रत्ययः लुका। 0 काणकुण्टादि।