SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 / / 723 // एकान्तचारिणः आरामोद्यानादिष्वेकाकिविहारोद्यतस्य तपस्विनो नाभिसमेति न सम्बन्धमुपयाति पापं अशुभकर्मेति, इदमुक्तं श्रुतस्कन्धः२ भवति- एतानि शीतोदकादीनि यद्यपीषत्कर्मबन्धाय तथापि धर्माधारं शरीरं प्रतिपालयत एकान्तचारिणस्तपस्विनो बन्धाय षष्ठमध्ययनं आर्द्रक्रीयम्, न भवन्तीति // 7 // 742 // एतत्परिहर्तुकाम आह-सीतोदग मित्यादि, एतानि प्रागुपन्यस्तानि अप्रासुकोदकपरिभोगादीनि सूत्रम् 7-10 प्रतिसेवन्तोऽगारिणो- गृहस्थास्ते भवन्ति अश्रमणाश्च-अप्रव्रजिताश्चैवं जानीहि, यतः-अहिंसा सत्यमस्तेयं, ब्रह्मचर्यमलुब्धता (738-741) इत्येत्तच्छ्रमणलक्षणम्, तच्चैषांशीतोदकबीजाऽऽधाकर्मस्त्रीपरिभोगवतांनास्तीत्यतस्ते नामाकाराभ्यां श्रमणान परमार्थानुष्ठा- यांतर नत इति॥८॥७४३॥पुनरप्याक एवैतद्रूषणायाह-स्यादेतद्भवदीयंमतं- यथा ते एकान्तचारिणः क्षुत्पिपासादिप्रधानतपचरणपीडिताश्च तत्कथं ते न तपस्विन इत्येतदाशयाईक आह- यदि बीजाद्युपभोगिनोऽपि श्रमणा इत्येवं भवताऽभ्युपगम्यते / एवं तहगारिणोऽपि- गृहस्थाः श्रमणा भवन्तु, तेषामपि देशिकावस्थायामाशंसावतामपि निष्किञ्चनतर्यकाकिविहारित्वं क्षुत्पिपासादिपीडनंचसंभाव्यते। अत आह-सेवंति उतुरवधारणेसेवन्त्येवतेऽपिगृहस्थास्तथाप्रकारमेकाकिविहारादिकमिति // 9 // 744 // पुनरप्याको बीजोदकादिभोजिनांदोषाभिधित्सयाऽऽह-जे यावी त्यादि, ये चापि भिक्षवः प्रव्रजिता बीजोदकभोजिनः सन्तो द्रव्यतो ब्रह्मचारिणोऽपि भिक्षांचाटन्ति जीवितार्थिनस्ते तथाभूता ज्ञातिसंयोगं स्वजनसम्बन्धं विप्रहाय त्यक्त्वा / कायान् कायेषु वोपगच्छन्तीति कायोपगास्तदुपमईकारम्भप्रवृत्तत्वात् संसारस्यानन्तकरा भवन्तीति, इदमुक्तं भवति- केवलं स्त्रीपरिभोग एव तैः परित्यक्तोऽसावपि द्रव्यतः,शेषेण तु बीजोदकाद्युपभोगेन गृहस्थकल्पा एव ते, यत्तु भिक्षाटनादिकमुपन्यस्तं तेषां तद्गृहस्थानामपि केषाश्चित्संभाव्यते, नैतावता श्रमणभाव इति // 10 // 745 // अधुनैतदाकर्ण्य गोशालकोऽपरमुत्तरं / दातुमसमर्थोऽन्यतीर्थिकान्सहायान् विधाय सोल्लण्ठमसारं वक्तुकाम आह // 723 //
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy