________________ श्रीसूत्रकृताङ्ग सर्वास्ववस्थासु सर्वेषामेव वध्यानां प्रत्येकममित्रभूतोऽवसरापेक्षितयाऽघ्नन्नपि मिथ्यासंस्थितो नित्यं प्रशठव्यतिपातचित्तदण्डो श्रुतस्कन्धः२ नियुक्ति भवति, एवं रागद्वेषाकुलितो बालवद्वालो ज्ञानावृत एकेन्द्रियादिरपि सर्वेषामेव प्राणिनां विरतेरभावात्तद्योग्यतया प्रत्येकं वध्येषु श्रीशीला० चतुर्थमध्ययन प्रत्याख्यान, वृत्तियुतम् घातकचित्तं समादाय नित्यं प्रशठव्यतिपातचित्तदण्डो भवतीति, इदमुक्तं भवति- यथाऽसौ तस्माद्गृहपतिराजादिघातादनुपशान्तवैरः सूत्रम् 64 श्रुतस्कन्धः 2 कालावसरापेक्षितया वधमकुर्वाणोऽप्यविरतिसद्भावाद्वैरान्न निवर्त्तते तत्प्रत्ययिकेन च कर्मणा बध्यते एवं तेऽपि एकेन्द्रिय॥ 671 // दण्डसिद्धिः विकलेन्द्रियादयस्तत्प्रत्ययिकेन च कर्मणा बध्यन्ते, एवं मृषावादादत्तादानमैथुनपरिग्रहेष्वपि प्रतिज्ञाहेतुदृष्टान्तोपनयनिगमनार्थविधानेन पञ्चावयवत्वंवाच्यमिति, इहैवं पञ्चावयवस्य वाक्यस्य सूत्राणां विभागोद्रष्टव्यः, तद्यथा-'आया अपच्चक्खाणी यावि भवतीत्यत आरभ्य यावत्पावे य से कम्मे कज्जई'त्ति इतीयं प्रतिज्ञा, तत्र परः प्रतिज्ञामात्रेणोक्तमनुक्तसममितिकृत्वा चोदयति, तद्यथा-'तत्थ चोयए पण्णवर्ग एवं वयासीत्यत आरभ्य यावज्जे ते एवमाहंसु मिच्छं ते एवमाहंसु'त्ति। तत्र प्रज्ञापकश्चोदकं प्रत्येवं वदेत्, तद्यथा- यन्मया पूर्वं प्रतिज्ञातं तत्सम्यक्, कस्य हेतोः?- केन हेतुनेति चेत्, तत्र हेतुमाह'तत्थ खलु भगवया छ जीवनिकाया हेऊ पण्णत्ता इत्यत आरभ्य यावत् मिच्छादसणसल्ले, इत्ययं हेतुः, तदस्य हेतोरनैकान्तिकत्वव्युदासार्थं स्वपक्षे सिद्धिं दर्शयितुं दृष्टान्तमाह, तद्यथा-'तत्थ खलु भगवया वहए दिटुंते पण्णत्ते इत्यत आरभ्य यावत् खणं लभृणं वहिस्सामीति पहारेमाणे'त्ति, तदेवं दृष्टान्तं प्रदर्श्य तत्र च हेतोः सत्तां स्वाभिप्रेतां परेण भाणयितुमाह-से किं नु हु णाम से वहए इत्यादेरारभ्य यावद्धन्ता भवति' तदेवं हेतोदृष्टान्ते सत्त्वं प्रसाध्य हेतोः पक्षधर्मत्वं दर्शयितुमुपनयार्थं / दृष्टान्तधर्मिणि हेतोः सत्तां परेणाभ्युपगतामनुवदति-'जहा से वहए इत्यत आरभ्य यावण्णिचं पसढविउवायचित्तदंडे'त्ति, साम्प्रतं हेतोः पक्षधर्मत्वमाह-'एवमेव बाले अवीत्यादीत्यत आरभ्य यावत्पावे य से कम्मे कजई'त्ति / तदेवं प्रतिज्ञाहेतु // 671 //