SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 653 // भारत!॥१॥तथा ते जीवाः पृथिवीशरीरं-कर्दमस्वरूपंक्रमेण वृद्धिमुपगताः सन्त आहारयन्ति, तच्चाहारितं सत्समानरूपी- श्रुतस्कन्धः२ कृतमात्मसात्परिणामयन्ति, शेषं सुगमम्, यावत्कर्मोपगता भवन्तीत्येवमाख्यातम् // साम्प्रतं स्थलचरानुद्दिश्याह-अहावर तृतीयमध्ययनं आहारपरिज्ञा, मित्यादि, अथापरमेतदाख्यातं नानाविधानां चतुष्पदानाम्, तद्यथा- एकखुराणामित्यश्वगौरखुरादीनां तथा द्विखुराणां-गोम- सूत्रम् 57 हिष्यादीनांतथा गण्डीपदानां-हस्तिगण्डकादीनां तथा सनखपदानां-सिंहव्याघ्रादीनां यथाबीजेन यथावकाशेन च सकलपर्याप्ति- (692) जलचरादि मवाप्योत्पद्यन्ते ते चोत्पन्नाः सन्तस्तदनन्तरं मातुः स्तन्यमाहारयन्तीति, क्रमेण च वृद्धिमुपगताःसन्तोऽपरेषामपि शरीरमाहारयन्तीति शेषं सुगमं यावत्कर्मोपगाँ भवन्तीति॥साम्प्रतमुरःपरिसर्पानुद्दिश्याह- नानाविधानां बहुप्रकाराणामुरसा ये प्रसर्पन्ति / तेषां, तद्यथा- अहीनामजगराणामाशालिकानां महोरगाणां यथाबीजेन यथावकाशेन चोत्पत्त्याऽण्डजत्वेन पोतजत्वेन वा गर्भान्निर्गच्छन्तीति / ते च निर्गता मातुरूष्माणं वायुं चाहारयन्ति, तेषां च जातिप्रत्ययेन तेनैवाहारेण क्षीरादिनेव वृद्धिरुपजायते, शेष सुगमम्, यावदाख्यातमिति ॥साम्प्रतं भुजपरिसर्पानुदद्दिश्याह- नानाविधानां भुजाभ्यां ये परिसर्पन्ति तेषाम्, तद्यथा- गोधान-8 कुलादीनां स्वकर्मोपात्तेन यथाबीजेन यथावकाशेन चोत्पत्तिर्भवति, ते चाण्डजत्वेन पोतजत्वेन चोत्पन्नास्तदनन्तरं मातुरूष्मणा वायुना चाऽऽहारितेन वृद्धिमुपयान्ति,शेषं सुगमम्, यावदाख्यातमिति॥साम्प्रतंखचरानुद्दिश्याह-नानाविधानांखेचराणामुत्पत्ति-2 रेवं द्रष्टव्या-तद्यथा- चर्मपक्षिणां-चर्मकीटवल्गुलीप्रभृतीनांतथा लोमपक्षिणां-सारसराजहंसकाकबकादीनां तथा समुद्गपक्षिविततपक्षिणांबहिर्दीपवर्तिनामेतेषां यथाबीजेन यथावकाशेन चोत्पन्नानामाहारक्रियैवमुपजायते, तद्यथा-सा पक्षिणी तदण्डकं // 653 // (r) राघव! (मु०)। (c) ०मित्यश्वखरा (मु०)। 0 काशेन सकल (मु०)। 0 ०पगता० (मु०)। 7 ०बजीत्वेन (मु०)। 0 स्वकर्मोपपात्तेन (मु०)।
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy