________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 649 // श्रुतस्कन्धः२ तृतीयमध्ययन आहारपरिज्ञा, सूत्रम् 56 (691) कर्मभूमिजा मनुष्याः ते दुहओवि सिणेहं संचिणंति, तत्थ णं जीवा इत्थित्ताए पुरिसत्ताए णपुंसगत्ताए विउद्देति, ते जीवा माओउयं पिउसुक्नं तं तदुभयं संसर्टकलुस किविसंतं पढमत्ताए आहारमाहारेंति, ततोपच्छा जंसे माया णाणाविहाओरसविहीओआहारमाहारेति ततो एगदेसेणं ओयमाहारेंति, आणुपुव्वेण वुड्डा पलिपागमणुपवन्ना ततो कायातो अभिनिवट्टमाणा इत्थिं वेगया जणयंति पुरिसंवेगया जणयंति णपुंसगं वेगया जणयंति, ते जीवा डहरा समाणा माउक्खीरं सप्पिं आहारेंति, आणुपुव्वेणं वुड्डा ओयणं कुम्मासं तसथावरे य पाणे, ते जीवा आहरेंति पुढविसरीरंजाव सारूविकडं संतं, अवरेऽवियणंतेसिंणाणाविहाणं मणुस्सगाणं कम्मभूमगाणं अकम्मभूमगाणं अंतरद्दीवगाणं आरियाणं मिलक्खूणं सरीराणाणावण्णा भवंतीतिमक्खायं // सूत्रम् 56 // 691 // अथानन्तरमेतत् पुरा पूर्वमाख्यातम्, तद्यथा- आर्याणामनार्याणां च कर्मभूमिजाकर्मभूमिजादीनां मनुष्याणां नानाविधयोनिकानां स्वरूपं वक्ष्यमाणनीत्या समाख्यातम्, तेषां च स्त्रीपुंनपुंसकभेदभिन्नानां यथाबीजेने ति यद्यस्य बीजम्, तत्र स्त्रियाः सम्बन्धि शोणितं पुरुषस्य शुक्रं एतदुभयमप्यविध्वस्तम्, शुक्राधिकं सत्पुरुषस्य शोणिताधिकं स्त्रियास्तत्समता नपुंसकस्य कारणतां प्रतिपद्यते, तथा यथावकाशेने ति यो यस्यावकाशो मातुरुदरकुक्ष्यादिकः, तत्रापि किल वामा स्त्रियो दक्षिणा कुक्षिः पुरुषस्योभयाश्रितः षण्ढ इति / अत्र चाविध्वस्ता योनिरविध्वस्तं बीजमिति चत्वारो भङ्गाः, तत्राप्याद्य एव भङ्गक उत्पत्तेरवकाशो न शेषेषु त्रिष्विति / अत्र च स्त्रीपुंसयोर्वेदोदये सति पूर्वकर्मनिर्वर्तितायां योनौ मैथुनप्रत्ययिको रताभिलाषोदयजनितोऽग्निकारणयोररणिकाष्ठयोरिव संयोगः समुत्पद्यते, तत्संयोगेच तच्छुक्रशोणिते समुपादाय तत्रोत्पित्सवोजन्तवस्तैजसकार्मणाभ्यां शरीराभ्यां कर्मरज्जुसंदानितास्तत्रोत्पद्यन्ते / ते च प्रथममुभयोरपि स्नेहमाचिन्वन्त्यविध्वस्तायां योनौ सत्यामिति, विध्वस्यते तु योनिः पञ्चपञ्चाशिका (यदा) नारी सप्तसप्ततिकः पुमान् इति, तथा द्वादश मुहूर्तानि यावच्छुक्रशोणिते अविध्वस्तयोनिके // 649 //